कुशलवजननम्

उत्तरकाण्डः / कुशलवजननम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे कुशलवजननम् नाम षट्षष्ठितमः सर्गः ॥७-६६॥
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् । तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥७-६६-१॥
ततोऽर्धरात्रसमये बालका मुनिदारकाः । वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥७-६६-२॥
भगवन्रामपत्नी सा प्रसूता दारकद्वयम् । ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥७-६६-३॥
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् । बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥७-६६-४॥
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ । भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥७-६६-५॥
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः । वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ॥७-६६-६॥
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः । निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥७-६६-७॥
यश्चावरो भवेत्ताभ्यां लवेन स समाहितः । निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ॥७-६६-८॥
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ । मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥७-६६-९॥
तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः । अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ॥७-६६-१०॥
तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च । सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥७-६६-११॥
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् । पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ॥७-६६-१२॥
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः । व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ॥७-६६-१३॥
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् । मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ॥७-६६-१४॥
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि । ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥७-६६-१५॥
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः । कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥७-६६-१६॥
स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् । कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ॥७-६६-१७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे कुशलवजननम् नाम षट्षष्ठितमः सर्गः ॥७-६६॥