भार्गवच्यवनाध्यागमनम्
उत्तरकाण्डः / भार्गवच्यवनाध्यागमनम्
Script
Translation
Previous
पूरुराज्याभिषेकः सारमेयावस्थानम् सर्वार्थसिद्धकौलपत्यदानम् गृध्रोलूकविवादः
Next
लवणत्राणप्रार्थना
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे भार्गवच्यवनाध्यागमनम् नाम षष्ठितमः सर्गः ॥७-६०॥
तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।
वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ॥७-६०-१॥
ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः ।
अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ॥७-६०-२॥
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।
एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ॥७-६०-३॥
भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः ।
दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः ।
प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ॥७-६०-४॥
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ।
प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ॥७-६०-५॥
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।
प्रवेशयामास तदा तापसान्सुदुरासदान् ॥७-६०-६॥
शतं समधिकं तत्र दीप्यमानं स्वतेजसा ।
प्रविष्टं राजभवनं तापसानां महात्मनाम् ॥७-६०-७॥
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ।
गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ॥७-६०-८॥
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः ।
तीर्थोदकानि सर्वाणि फलानि विविधानि च ॥७-६०-९॥
उवाच च महाबाहुः सर्वानेव महामुनीन् ।
इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ॥७-६०-१०॥
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ।
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ॥७-६०-११॥
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।
प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ॥७-६०-१२॥
किमागमनकार्यं वः किं करोमि समाहितः ।
आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् ॥७-६०-१३॥
इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।
सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ॥७-६०-१४॥
तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ।
ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥७-६०-१५॥
ऊचुश्च ते महात्मानो हर्षेण महता वृताः ।
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥७-६०-१६॥
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।
कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥७-६०-१७॥
त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।
ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्त्रातुमृषींस्त्वमर्हसि ॥७-६०-१८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे भार्गवच्यवनाध्यागमनम् नाम षष्ठितमः सर्गः ॥७-६०॥
Previous
पूरुराज्याभिषेकः सारमेयावस्थानम् सर्वार्थसिद्धकौलपत्यदानम् गृध्रोलूकविवादः
Next
लवणत्राणप्रार्थना