निमिनिमीषीकरणम्
उत्तरकाण्डः / निमिनिमीषीकरणम्
Script
Translation
Previous
मैत्रावरुणित्वप्राप्तिः
Next
ययातिशापः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे निमिनिमीषीकरणम् नाम सप्तपञ्चाशः सर्गः ॥७-५७॥
तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् ।
लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ॥७-५७-१॥
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।
पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ॥७-५७-२॥
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः ।
तां कथां कथयामास वसिष्ठस्य महात्मनः ॥७-५७-३॥
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ।
तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ॥७-५७-४॥
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः ।
नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ॥७-५७-५॥
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् ।
तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ॥७-५७-६॥
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः ।
वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ॥७-५७-७॥
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् ।
वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ॥७-५७-८॥
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः ।
कथितो निर्गमः सौम्य निमेः शृणु यथाऽभवत् ॥७-५७-९॥
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते ।
तं च ते योजयामासुर्यागदीक्षां मनीषिणः ॥७-५७-१०॥
तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः ।
गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ॥७-५७-११॥
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् ।
आनयिष्यामि ते चेतस्तुष्टोऽस्मि तव पार्थिव ॥७-५७-१२॥
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् ।
वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ॥७-५७-१३॥
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् ।
नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ॥७-५७-१४॥
बाढमित्येव विबुधा निमेश्चेतस्तदाऽब्रुवन् ।
नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ॥७-५७-१५॥
त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते ।
वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ॥७-५७-१६॥
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् ।
ऋषयोऽपि महात्मानो निमेर्देहं समाहरन् ॥७-५७-१७॥
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा ।
मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ॥७-५७-१८॥
अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः ।
मथनान्मिथिरित्याहुर्जननाज्जनकोऽभवत् ।
यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ॥७-५७-१९॥
एवं विदेहराजश्च जनकः पूर्वकोऽभवत् ।
मिथिर्नाम महातेजास्तेनायं मैथिलोऽभवत् ॥७-५७-२०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे निमिनिमीषीकरणम् नाम सप्तपञ्चाशः सर्गः ॥७-५७॥
Previous
मैत्रावरुणित्वप्राप्तिः
Next
ययातिशापः