निमिवसिष्ठशापः

उत्तरकाण्डः / निमिवसिष्ठशापः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे निमिवसिष्ठशापः नाम पञ्चपञ्चाशः सर्गः ॥७-५५॥
एष ते नृगशापस्य विस्तरोऽभिहितो मया । यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥७-५५-१॥
एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् । तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥७-५५-२॥
लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः । कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥७-५५-३॥
आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् । पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥७-५५-४॥
स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् । निवेशयामास तदा अभ्याशे गौतमस्य तु ॥७-५५-५॥
पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् । निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥७-५५-६॥
तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् । यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥७-५५-७॥
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् । वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥७-५५-८॥
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः । अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥७-५५-९॥
तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् । वृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥७-५५-१०॥
अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् । वसिष्ठोऽपि महातेजा इन्द्रयज्ञमथाकरोत् ॥७-५५-११॥
निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः । अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः । पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ॥७-५५-१२॥
इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः । सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥७-५५-१३॥
तदन्तरमथापश्यद्गौतमेनाभिपूरितम् । कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ॥७-५५-१४॥
स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् । तस्मिन्नहनि राजर्षिर्निद्रयाऽपहृतो भृशम् ॥७-५५-१५॥
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः । अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥७-५५-१६॥
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव । चेतनेन विनाभूतो देहस्तव भविष्यति ॥७-५५-१७॥
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् । ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ॥७-५५-१८॥
अजानतः शयानस्य क्रोधेन कलुषीकृतः । मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ॥७-५५-१९॥
तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः । देहः सुरुचिरप्रख्यो भविष्यति न संशयः ॥७-५५-२०॥
इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ । सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥७-५५-२१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे निमिवसिष्ठशापः नाम पञ्चपञ्चाशः सर्गः ॥७-५५॥