नृगशापकथनम्
उत्तरकाण्डः / नृगशापकथनम्
Script
Translation
Previous
रामसमाधानम्
Next
नृगश्वभ्रप्रवेशः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे नृगशापकथनम् नाम त्रिपञ्चाशः सर्गः ॥७-५३॥
लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् ।
सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ॥७-५३-१॥
दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः ।
यादृशस्त्वं महाबुद्धेर्मम सौम्य मनोऽनुगः ॥७-५३-२॥
यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण ।
तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥७-५३-३॥
चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै ।
अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ॥७-५३-४॥
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ।
कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ॥७-५३-५॥
पौरकार्याणि यो राजा न करोति दिने दिने ।
संवृते नरके घोरे पतितो नात्र संशयः ॥७-५३-६॥
श्रूयते हि पुरा राजा नृगो नाम महायशाः ।
बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः ॥७-५३-७॥
स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः ।
नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥७-५३-८॥
ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिताऽनघ ।
ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ॥७-५३-९॥
स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च ।
नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ॥७-५३-१०॥
ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् ।
ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ॥७-५३-११॥
अथ तां नामधेयेन स्वकेनोवाच स द्विजः ।
आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ॥७-५३-१२॥
तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै ।
अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ॥७-५३-१३॥
योऽपि पालयते विप्रः सोऽपि गामन्वगाद्द्रुतम् ।
गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ॥७-५३-१४॥
स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह ।
तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ॥७-५३-१५॥
विवदन्तौ ततोऽन्योन्यं दातारमभिजग्मतुः ।
तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ॥७-५३-१६॥
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ।
ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् ॥७-५३-१७॥
अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् ।
अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ॥७-५३-१८॥
बहुवर्षसहस्राणि बहुवर्षशतानि च ।
श्वभ्रेऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ॥७-५३-१९॥
उत्पत्स्यते हि लोकेऽस्मिन्यदूनां कीर्तिवर्धनः ।
वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ॥७-५३-२०॥
स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि ।
कृता च तेन कालेन निष्कृतिस्ते भविष्यति ॥७-५३-२१॥
भारावतरणार्थं हि नरनारायणावुभौ ।
उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ॥७-५३-२२॥
एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ।
तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ॥७-५३-२३॥
एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ॥७-५३-२४॥
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते ।
तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ॥७-५३-२५॥
सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः ।
तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ॥७-५३-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नृगशापकथनम् नाम त्रिपञ्चाशः सर्गः ॥७-५३॥
Previous
रामसमाधानम्
Next
नृगश्वभ्रप्रवेशः