जनकादिप्रतिप्रयाणम्

उत्तरकाण्डः / जनकादिप्रतिप्रयाणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे जनकादिप्रतिप्रयाणम् नाम अष्टात्रिंशः सर्गः ॥७-३८॥
एवमास्ते महाबाहुरहन्यहनि राघवः । प्रशासत्सर्वकार्याणि पौरजानपदेषु च ॥७-३८-१॥
ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥७-३८-२॥
भवान्हि गतिरव्यग्रा भवता पालिता वयम् । भवतस्तेजसोग्रेण रावणो निहतो मया ॥७-३८-३॥
इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः । अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः ॥७-३८-४॥
तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव । भरतश्च सहायार्थं पृष्ठतस्तेऽनुयास्यति ॥७-३८-५॥
स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् । प्रीतोऽस्मि भवतो राजन्दर्शनेन नयेन च ॥७-३८-६॥
यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै । दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ॥७-३८-७॥
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः । प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥७-३८-८॥
ततः प्रयाते जनके केकयं मातुलं प्रभुः । राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥७-३८-९॥
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः । आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ॥७-३८-१०॥
राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति । तस्माद्गमनमद्यैव रोचते तव पार्थिव ॥७-३८-११॥
लक्ष्मणेनानुयात्रेण पृष्ठतोऽनुगमिष्यते । धनमादाय विपुलं रत्नानि विविधानि च ॥७-३८-१२॥
युधाजित्तु तथेत्याह गमनं प्रति राघवम् । रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ॥७-३८-१३॥
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः । रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ॥७-३८-१४॥
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः । हतेऽसुरे यथा वृत्रे विष्णुना सह वासवः ॥७-३८-१५॥
तं विसृज्य ततो रामो वयस्यमकुतोभयम् । प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥७-३८-१६॥
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् । उद्योगश्च कृतो राजन्भरतेन त्वया सह ॥७-३८-१७॥
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज । रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ॥७-३८-१८॥
एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् । पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ॥७-३८-१९॥
विसर्जयामास तदा कौसल्यानन्दवर्धनः । राघवेणाभ्यनुज्ञातः काशीशोऽप्यकुतोभयः । वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ॥७-३८-२०॥
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् । प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ॥७-३८-२१॥
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता । धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ॥७-३८-२२॥
युष्माकं चानुभावेन तेजसा च महात्मनाम् । हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ॥७-३८-२३॥
हेतुमात्रमहं तत्र भवतां तेजसा हतः । रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ॥७-३८-२४॥
भवन्तश्च समानीता भरतेन महात्मना । श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ॥७-३८-२५॥
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् । कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ॥७-३८-२६॥
प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः । दिष्ट्यां त्वं विजयी राम स्वराज्येऽपि प्रतिष्ठितः ॥७-३८-२७॥
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः । एष नः परमः काम एषा नः पीतिरुत्तमा ॥७-३८-२८॥
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ॥७-३८-२९॥
एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे । प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ॥७-३८-३०॥
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् । वर्तामहे महाबाहो प्रीत्यात्र महता वृताः । भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ॥७-३८-३१॥
बाढमित्येव राजानो हर्षेण परमान्विताः । उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ॥७-३८-३२॥
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ॥७-३८-३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे जनकादिप्रतिप्रयाणम् नाम अष्टात्रिंशः सर्गः ॥७-३८॥