रावणलङ्काप्राप्तिः
उत्तरकाण्डः / रावणलङ्काप्राप्तिः
Script
Translation
Previous
रावणादिवरदानम्
Next
रावणादिविवाहः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे रावणलङ्काप्राप्तिः नाम एकादशः सर्गः ॥७-११॥
सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् ।
उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ॥७-११-१॥
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः ।
उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ॥७-११-२॥
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः ।
अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥७-११-३॥
दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितोऽयं मनोरथः ।
यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ॥७-११-४॥
यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम् ।
तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥७-११-५॥
असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् ।
विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥७-११-६॥
अस्मदीया च लङ्केयं नगरी राक्षसोचिता ।
निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ॥७-११-७॥
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ ।
तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥७-११-८॥
त्वं तु लङ्केश्वरस्तात भविष्यसि न संशयः ।
त्वया राक्षसवंशोऽयं निमग्नोऽपि समुद्धृतः ।
सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ॥७-११-९॥
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् ।
वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ॥७-११-१०॥
साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा ।
किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ॥७-११-११॥
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः ।
उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ॥७-११-१२॥
प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ॥७-११-१३॥
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् ।
सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ॥७-११-१४॥
अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते ।
भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ॥७-११-१५॥
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् ।
दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ॥७-११-१६॥
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा ।
सपर्वता मही वीर तेऽभवन्प्रभविष्णवः ॥७-११-१७॥
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना ।
देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ॥७-११-१८॥
नैतदेको भवानेव करिष्यति विपर्ययम् ।
सुरासुरैराचरितं तत्कुरुष्व वचो मम ॥७-११-१९॥
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना ।
चिन्तयित्वा मुहूर्तं वै बाढमित्येव सोऽब्रवीत् ॥७-११-२०॥
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् ।
वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ॥७-११-२१॥
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः ।
प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ॥७-११-२२॥
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् ।
वचसा मम वित्तेशं सामपूर्वमिदं वचः ॥७-११-२३॥
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् ।
त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ॥७-११-२४॥
तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम ।
कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ॥७-११-२५॥
स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् ।
अब्रवीत्परमोदारं वित्तपालमिदं वचः ॥७-११-२६॥
प्रेषितोऽहं तव भ्रात्रा दशग्रीवेण सुव्रत ।
त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ॥७-११-२७॥
तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद ।
वचनं मम वित्तेश यद्ब्रवीति दशाननः ॥७-११-२८॥
इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा ।
भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ॥७-११-२९॥
तेन विज्ञाप्यते सोऽयं साम्प्रतं विश्रवात्मज ।
तदेषा दीयतां तात याचतस्तस्य सामतः ॥७-११-३०॥
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः ।
प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥७-११-३१॥
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः ।
निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ॥७-११-३२॥
ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम ।
तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् ॥७-११-३३॥
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ॥७-११-३४॥
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् ।
एष तात दशग्रीवो दूतं प्रेषितवान्मम ॥७-११-३५॥
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता ।
मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ॥७-११-३६॥
ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुङ्गवः ।
प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ॥७-११-३७॥
दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ ।
मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ॥७-११-३८॥
स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः ।
श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ॥७-११-३९॥
वरप्रदानसम्मूढो मान्याऽमान्यान् स दुर्मतिः ।
न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ॥७-११-४०॥
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् ।
निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ॥७-११-४१॥
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी ।
काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ॥७-११-४२॥
कुमुदैरुत्पलैश्चैव तथाऽन्यैश्च सुगन्धिभिः ॥७-११-४३॥
तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः ।
विहारशीलाः सततं रमन्ते सर्वदाऽऽश्रिताः ॥७-११-४४॥
न हि क्षमं तवानेन वैरं धनद रक्षसा ।
जानीषे हि यथाऽनेन लब्धः परमको वरः ॥७-११-४५॥
एवमुक्तो गृहीत्वाऽऽशु तद्वचः पितृगौरवात् ।
सदारपुत्रः सामान्यः सवाहनधनो गतः ॥७-११-४६॥
प्रहस्तोऽथ दशग्रीवं गत्वा वचनमब्रवीत् ।
प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ॥७-११-४७॥
शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः ।
प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ॥७-११-४८॥
एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः ।
विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ॥७-११-४९॥
धनदेन परित्यक्तां सुविभक्तमहापथाम् ।
आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ॥७-११-५०॥
स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः ।
निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ॥७-११-५१॥
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् ।
स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदाऽमरावतीम् ॥७-११-५२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे रावणलङ्काप्राप्तिः नाम एकादशः सर्गः ॥७-११॥
Previous
रावणादिवरदानम्
Next
रावणादिविवाहः