अङ्गदचन्द्रकेतुनिवेशः
उत्तरकाण्डः / अङ्गदचन्द्रकेतुनिवेशः
Script
Translation
Previous
तक्षपुष्कलनिवेशः
Next
कालागमनम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे अङ्गदचन्द्रकेतुनिवेशः नाम द्व्यधिकशततमः सर्गः ॥७-१०२॥
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।
वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ॥७-१०२-१॥
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।
अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ॥७-१०२-२॥
इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम् ।
रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ॥७-१०२-३॥
न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।
स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥७-१०२-४॥
तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।
अयं कारुपथो देशो रमणीयो निरामयः ॥७-१०२-५॥
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।
चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ॥७-१०२-६॥
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।
तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ॥७-१०२-७॥
अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता ।
रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥७-१०२-८॥
चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता ।
चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ॥७-१०२-९॥
ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।
ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ॥७-१०२-१०॥
अभिषिच्य कुमारौ स प्रस्थापयति राघवः ।
अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥७-१०२-११॥
अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह ।
चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥७-१०२-१२॥
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।
पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ॥७-१०२-१३॥
भरतोऽपि तथैवोष्य संवत्सरमतोऽधिकम् ।
अयोध्यां पुनरागम्य रामपादावुपास्त सः ॥७-१०२-१४॥
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।
कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ ॥७-१०२-१५॥
एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।
धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ॥७-१०२-१६॥
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ।
त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयोऽग्नयः ॥७-१०२-१७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अङ्गदचन्द्रकेतुनिवेशः नाम द्व्यधिकशततमः सर्गः ॥७-१०२॥
Previous
तक्षपुष्कलनिवेशः
Next
कालागमनम्