गन्धर्वविषयविजययात्रा
उत्तरकाण्डः / गन्धर्वविषयविजययात्रा
Script
Translation
Previous
कौसल्यादिकालधर्मः
Next
तक्षपुष्कलनिवेशः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे गन्धर्वविषयविजययात्रा नाम शततमः सर्गः ॥७-१००॥
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।
स्वगुरुं प्रेषयामास राघवाय महात्मने ।
गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥७-१००-१॥
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥७-१००-२॥
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् ।
रामाय प्रददौ राजा शुभान्याभरणानि च ॥७-१००-३॥
श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् ।
मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ॥७-१००-४॥
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः ।
गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ॥७-१००-५॥
तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च ।
पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च ।
उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ॥७-१००-६॥
किमाह मातुलो वाक्यं यदर्थं भगवानिह ।
प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ॥७-१००-७॥
रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् ।
वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ॥७-१००-८॥
मातुलस्ते महाबाहो वाक्यमाह नरर्षभः ।
युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ॥७-१००-९॥
अयं गन्धर्वविषयः फलमूलोपशोभितः ।
सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥७-१००-१०॥
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः ।
शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ॥७-१००-११॥
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् ।
निवेशय महाबोहो स्वे पुरे सुसमाहिते ॥७-१००-१२॥
अन्यस्य न गतिस्तत्र देशः परमशोभनः ।
रोचतां ते महाबाहो नाहं त्वामहितं वदे ॥७-१००-१३॥
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च ।
उवाच बाढमित्येव भरतं चान्ववैक्षत ॥७-१००-१४॥
सोऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ।
इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ॥७-१००-१५॥
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च ।
मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ॥७-१००-१६॥
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।
निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ॥७-१००-१७॥
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च ।
आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥७-१००-१८॥
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।
आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ॥७-१००-१९॥
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् ।
भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ॥७-१००-२०॥
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ ।
राघवानुगता दूरं दुराधर्षा सुरैरपि ॥७-१००-२१॥
मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च ।
अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ॥७-१००-२२॥
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः ।
गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ॥७-१००-२३॥
सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् ।
बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥७-१००-२४॥
अध्यर्धमासमुषिता पथि सेना निरामया ।
हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥७-१००-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे गन्धर्वविषयविजययात्रा नाम शततमः सर्गः ॥७-१००॥
Previous
कौसल्यादिकालधर्मः
Next
तक्षपुष्कलनिवेशः