इन्द्रजिद्विभीषणविवादः

युद्धकाण्डः / इन्द्रजिद्विभीषणविवादः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे इन्द्रजिद्विभीषणविवादः नाम पञ्चदशः सर्गः ॥६-१५॥
बृहस्पतेस्तुल्यमतेर्वचस्तन्निशम्य यत्नेन विभीषणस्य । ततो महात्मा वचनं बभाषे तत्रेन्द्रजिन्नैर्ऋतयूथमुख्यः ॥६-१५-१॥
किं नाम ते तात कनिष्ठ वाक्यमनर्थकं वै बहुभीतवच्च । अस्मिन् कुले योऽपि भवेन्न जातः सोऽपीदृशं नैव वदेन्न कुर्यात् ॥६-१५-२॥
सत्त्वेन वीर्येण पराक्रमेण धैर्येण शौर्येण च तेजसा च । एकः कुलेऽस्मिन् पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः ॥६-१५-३॥
किं नाम तौ मानुषराजपुत्रावस्माकमेकेन हि राक्षसेन । सुप्राकृतेनापि निहन्तुमेतौ शक्यौ कुतो भीषयसे स्म भीरो ॥६-१५-४॥
त्रिलोकनाथो ननु देवराजः शक्रो मया भूमितले निविष्टः । भयार्पिताश्चापि दिशः प्रपन्नाः सर्वे तदा देवगणाः समग्राः ॥६-१५-५॥
ऐरावतो निःस्वनमुन्नदन् स निपातितो भूमितले मया तु । विकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः ॥६-१५-६॥
सोऽहं सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोककर्ता । कथं नरेन्द्रात्मजयोर्न शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः ॥६-१५-७॥
अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद् वचनं निशम्य । ततो महार्थं वचनं बभाषे विभीषणः शस्त्रभृतां वरिष्ठः ॥६-१५-८॥
न तात मन्त्रे तव निश्चयोऽस्ति बालस्त्वमद्याप्यविपक्वबुद्धिः । तस्मात् त्वयाप्यात्मविनाशनाय वचोऽर्थहीनं बहु विप्रलप्तम् ॥६-१५-९॥
पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः । यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम् ॥६-१५-१०॥
त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो य इहानयत् त्वाम् । बालं दृढं साहसिकं च योऽद्य प्रावेशयन्मन्त्रकृतां समीपम् ॥६-१५-११॥
मूढोऽप्रगल्भोऽविनयोपपन्नस्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा । मूर्खस्त्वमत्यन्तसुदुर्मतिश्च त्वमिन्द्रजिद् बालतया ब्रवीषि ॥६-१५-१२॥
को ब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतः कालनिकाशरूपान् । सहेत बाणान् यमदण्डकल्पान् समक्षमुक्तान् युधि राघवेण ॥६-१५-१३॥
धनानि रत्नानि सुभूषणानि वासांसि दिव्यानि मणींश्च चित्रान् । सीतां च रामाय निवेद्य देवीं वसेम राजन्निह वीतशोकाः ॥६-१५-१४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे इन्द्रजिद्विभीषणविवादः नाम पञ्चदशः सर्गः ॥६-१५॥