रावणशङ्कानिवारणम्

सुन्दरकाण्डः / रावणशङ्कानिवारणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे रावणशङ्कानिवारणम् नाम चतुस्त्रिंशः सर्गः ॥५-३४॥
तस्यास्तद् वचनं श्रुत्वा हनूमान् हरिपुंगवः । दुःखाद् दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत् ॥५-३४-१॥
अहं रामस्य संदेशाद् देवि दूतस्तवागतः । वैदेहि कुशली रामः स त्वां कौशलमब्रवीत् ॥५-३४-२॥
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः । स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ॥५-३४-३॥
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः । कृतवाञ्छोकसंतप्तः शिरसा तेऽभिवादनम् ॥५-३४-४॥
सा तयोः कुशलं देवी निशम्य नरसिंहयोः । प्रतिसंहृष्टसर्वांगी हनूमन्तमथाब्रवीत् ॥५-३४-५॥
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥५-३४-६॥
तयोः समागमे तस्मिन् प्रीतिरुत्पादिताद्भुता । परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥५-३४-७॥
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः । सीतायाः शोकतप्तायाः समीपमुपचक्रमे ॥५-३४-८॥
यथा यथा समीपं स हनूमानुपसर्पति । तथा तथा रावणं सा तं सीता परिशङ्कते ॥५-३४-९॥
अहो धिग् धिक्कृतमिदं कथितं हि यदस्य मे । रूपान्तरमुपागम्य स एवायं हि रावणः ॥५-३४-१०॥
तामशोकस्य शाखां तु विमुक्त्वा शोककर्शिता । तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥५-३४-११॥
अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् । सा चैनं भयसंत्रस्ता भूयो नैनमुदैक्षत ॥५-३४-१२॥
तं दृष्ट्वा वन्दमानं च सीता शशिनिभानना । अब्रवीद् दीर्घमुच्छ्वस्य वानरं मधुरस्वरा ॥५-३४-१३॥
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् । उत्पादयसि मे भूयः संतापं तन्न शोभनम् ॥५-३४-१४॥
स्वं परित्यज्य रूपं यः परिव्राजकरूपवान् । जनस्थाने मया दृष्टस्त्वं स एव हि रावणः ॥५-३४-१५॥
उपवासकृशां दीनां कामरूप निशाचर । संतापयसि मां भूयः संतापं तन्न शोभनम् ॥५-३४-१६॥
अथवा नैतदेवं हि यन्मया परिशङ्कितम् । मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ॥५-३४-१७॥
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते । पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ॥५-३४-१८॥
गुणान् रामस्य कथय प्रियस्य मम वानर । चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ॥५-३४-१९॥
अहो स्वप्नस्य सुखता याहमेव चिराहृता । प्रेषितं नाम पश्यामि राघवेण वनौकसम् ॥५-३४-२०॥
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् । पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ॥५-३४-२१॥
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् । न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ॥५-३४-२२॥
किं नु स्याच्चित्तमोहोऽयं भवेद् वातगतिस्त्वियम् । उन्मादजो विकारो वा स्यादयं मृगतृष्णिका ॥५-३४-२३॥
अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः । सम्बुध्ये चाहमात्मानमिमं चापि वनौकसम् ॥५-३४-२४॥
इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम् । रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ॥५-३४-२५॥
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा । न प्रतिव्याजहाराथ वानरं जनकात्मजा ॥५-३४-२६॥
सीताया निश्चितं बुद्ध्वा हनूमान् मारुतात्मजः । श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयन् ॥५-३४-२७॥
आदित्य इव तेजस्वी लोककान्तः शशी यथा । राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ॥५-३४-२८॥
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः । सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा ॥५-३४-२९॥
रूपवान् सुभगः श्रीमान् कंदर्प इव मूर्तिमान् । स्थानक्रोधे प्रहर्ता च श्रेष्ठो लोके महारथः ॥५-३४-३०॥
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः । अपक्रम्याश्रमपदान्मृगरूपेण राघवम् ॥५-३४-३१॥
शून्ये येनापनीतासि तस्य द्रक्ष्यसि तत्फलम् । अचिराद् रावणं संख्ये यो वधिष्यति वीर्यवान् ॥५-३४-३२॥
क्रोधप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः । तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः ॥५-३४-३३॥
त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् । लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥५-३४-३४॥
अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत् । रामस्य च सखा देवि सुग्रीवो नाम वानरः ॥५-३४-३५॥
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् । नित्यं स्मरति ते रामः ससुग्रीवः सलक्ष्मणः ॥५-३४-३६॥
दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता । नचिराद् द्रक्ष्यसे रामं लक्ष्मणं च महारथम् ॥५-३४-३७॥
मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् । अहं सुग्रीवसचिवो हनूमान् नाम वानरः ॥५-३४-३८॥
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् । कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ॥५-३४-३९॥
त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् । नाहमस्मि तथा देवि यथा मामवगच्छसि । विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥५-३४-४०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे रावणशङ्कानिवारणम् नाम चतुस्त्रिंशः सर्गः ॥५-३४॥