राक्षसीनिर्भर्त्सनम्

सुन्दरकाण्डः / राक्षसीनिर्भर्त्सनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे राक्षसीनिर्भर्त्सनम् नाम चतुर्विंशः सर्गः ॥५-२४॥
ततः सीतां समस्तास्ता राक्षस्यो विकृताननाः । परुषं परुषानर्हामूचुस्तद्वाक्यमप्रियम् ॥५-२४-१॥
किं त्वमन्तःपुरे सीते सर्वभूतमनोरमे । महार्हशयनोपेते न वासमनुमन्यसे ॥५-२४-२॥
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे । प्रत्याहर मनो रामान्नैवं जातु भविष्यति ॥५-२४-३॥
त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् । भर्तारमुपसंगम्य विहरस्व यथासुखम् ॥५-२४-४॥
मानुषी मानुषं तं तु राममिच्छसि शोभने । राज्याद् भ्रष्टमसिद्धार्थं विक्लवन्तमनिन्दिते ॥५-२४-५॥
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा । नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥५-२४-६॥
यदिदं लोकविद्विष्टमुदाहरत संगताः । नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति ॥५-२४-७॥
न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ॥५-२४-८॥
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः । तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला ॥५-२४-९॥
यथा शची महाभागा शक्रं समुपतिष्ठति । अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ॥५-२४-१०॥
लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा । सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ॥५-२४-११॥
सौदासं मदयन्तीव केशिनी सगरं यथा । नैषधं दमयन्तीव भैमी पतिमनुव्रता ॥५-२४-१२॥
तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता । सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः । भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ॥५-२४-१३॥
अवलीनः स निर्वाक्यो हनुमान् शिंशपाद्रुमे । सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत् कपिः ॥५-२४-१४॥
तामभिक्रम्य संरब्धा वेपमानां समन्ततः । भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान् ॥५-२४-१५॥
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् । नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ॥५-२४-१६॥
सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरांगना । सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् ॥५-२४-१७॥
ततस्तां शिंशपां सीता राक्षसीभिः समावृता । अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ॥५-२४-१८॥
तां कृशां दीनवदनां मलिनाम्बरवासिनीम् । भर्त्सयाञ्चक्रिरे भीमा राक्षस्यस्ताः समन्ततः ॥५-२४-१९॥
ततस्तु विनता नाम राक्षसी भीमदर्शना । अब्रवीत् कुपिताकारा कराला निर्णतोदरी ॥५-२४-२०॥
सीते पर्याप्तमेतावद् भर्तुः स्नेहः प्रदर्शितः । सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ॥५-२४-२१॥
परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः । ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ॥५-२४-२२॥
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् । विक्रान्तमापतन्तं च सुरेशमिव वासवम् ॥५-२४-२३॥
दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् । मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ॥५-२४-२४॥
दिव्यांगरागा वैदेहि दिव्याभरणभूषिता । अद्यप्रभृति लोकानां सर्वेषामीश्वरी भव ॥५-२४-२५॥
अग्नेः स्वाहा यथा देवी शची वेन्द्रस्य शोभने । किं ते रामेण वैदेहि कृपणेन गतायुषा ॥५-२४-२६॥
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि । अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥५-२४-२७॥
अन्या तु विकटा नाम लम्बमानपयोधरा । अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य तर्जती ॥५-२४-२८॥
बहून्यप्रतिरूपाणि वचनानि सुदुर्मते । अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ॥५-२४-२९॥
न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् । आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् ॥५-२४-३०॥
रावणान्तःपुरे घोरे प्रविष्टा चासि मैथिलि । रावणस्य गृहे रुद्धा अस्माभिस्त्वभिरक्षिता ॥५-२४-३१॥
न त्वां शक्तः परित्रातुमपि साक्षात् पुरंदरः । कुरुष्व हितवादिन्या वचनं मम मैथिलि ॥५-२४-३२॥
अलमश्रुनिपातेन त्यज शोकमनर्थकम् । भज प्रीतिं प्रहर्षं च त्यजन्ती नित्यदैन्यताम् ॥५-२४-३३॥
सीते राक्षसराजेन परिक्रीड यथासुखम् । जानीमहे यथा भीरु स्त्रीणां यौवनमध्रुवम् ॥५-२४-३४॥
यावन्न ते व्यतिक्रामेत् तावत् सुखमवाप्नुहि । उद्यानानि च रम्याणि पर्वतोपवनानि च ॥५-२४-३५॥
सह राक्षसराजेन चर त्वं मदिरेक्षणे । स्त्रीसहस्राणि ते देवि वशे स्थास्यन्ति सुन्दरि ॥५-२४-३६॥
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् । उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ॥५-२४-३७॥
यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि । ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना ॥५-२४-३८॥
भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् । इमां हरिणशावाक्षीं त्रासोत्कम्पपयोधराम् ॥५-२४-३९॥
रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानयम् । यकृत्प्लीहं महत् क्रोडं हृदयं च सबन्धनम् ॥५-२४-४०॥
गात्राण्यपि तथा शीर्षं खादेयमिति मे मतिः । ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ॥५-२४-४१॥
कण्ठमस्या नृशंसायाः पीडयामः किमास्यते । निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ॥५-२४-४२॥
नात्र कश्चन संदेहः खादतेति स वक्ष्यति । ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ॥५-२४-४३॥
विशस्येमां ततः सर्वान् समान् कुरुत पिण्डकान् । विभजाम ततः सर्वा विवादो मे न रोचते ॥५-२४-४४॥
पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु । ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् ॥५-२४-४५॥
अजामुख्या यदुक्तं वै तदेव मम रोचते । सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ॥५-२४-४६॥
मानुषं मांसमास्वाद्य नृत्यामोऽथ निकुम्भिलाम् । एवं निर्भर्त्स्यमाना सा सीता सुरसुतोपमा । राक्षसीभिर्विरूपाभिर्धैर्यमुत्सृज्य रोदिति ॥५-२४-४७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे राक्षसीनिर्भर्त्सनम् नाम चतुर्विंशः सर्गः ॥५-२४॥