मासद्वयावधिकरणम्

सुन्दरकाण्डः / मासद्वयावधिकरणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे मासद्वयावधिकरणम् नाम द्वाविंशः सर्गः ॥५-२२॥
सीताया वचनं श्रुत्वा परुषं राक्षसेश्वरः । प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥५-२२-१॥
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा । यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥५-२२-२॥
संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः । द्रवतो मार्गमासाद्य हयानिव सुसारथिः ॥५-२२-३॥
वामः कामो मनुष्याणां यस्मिन् किल निबध्यते । जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥५-२२-४॥
एतस्मात् कारणान्न त्वां घातयामि वरानने । वधार्हामवमानार्हां मिथ्या प्रव्रजने रताम् ॥५-२२-५॥
परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् । तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ॥५-२२-६॥
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः । क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥५-२२-७॥
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः । ततः शयनमारोह मम त्वं वरवर्णिनि ॥५-२२-८॥
द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् । मम त्वां प्रातराशार्थे सूदाश्छेत्स्यन्ति खण्डशः ॥५-२२-९॥
तां भर्त्स्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम् । देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ॥५-२२-१०॥
ओष्ठप्रकारैरपरा नेत्रैर्वक्त्रैस्तथापराः । सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥५-२२-११॥
ताभिराश्वासिता सीता रावणं राक्षसाधिपम् । उवाचात्महितं वाक्यं वृत्तशौटीर्यगर्वितम् ॥५-२२-१२॥
नूनं न ते जनः कश्चिदस्मिन्निःश्रेयसि स्थितः । निवारयति यो न त्वां कर्मणोऽस्माद् विगर्हितात् ॥५-२२-१३॥
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः । त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ॥५-२२-१४॥
राक्षसाधम रामस्य भार्याममिततेजसः । उक्तवानसि यत् पापं क्व गतस्तस्य मोक्ष्यसे ॥५-२२-१५॥
यथा दृप्तश्च मातंगः शशश्च सहितौ वने । तथा द्विरदवद् रामस्त्वं नीच शशवत् स्मृतः ॥५-२२-१६॥
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे । चक्षुषो विषये तस्य न यावदुपगच्छसि ॥५-२२-१७॥
इमे ते नयने क्रूरे विकृते कृष्णपिंगले । क्षितौ न पतिते कस्मान्मामनार्य निरीक्षतः ॥५-२२-१८॥
तस्य धर्मात्मनः पत्नी स्नुषा दशरथस्य च । कथं व्याहरतो मां ते न जिह्वा पाप शीर्यति ॥५-२२-१९॥
असंदेशात्तु रामस्य तपसश्चानुपालनात् । न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ॥५-२२-२०॥
नापहर्तुमहं शक्या तस्य रामस्य धीमतः । विधिस्तव वधार्थाय विहितो नात्र संशयः ॥५-२२-२१॥
शूरेण धनदभ्रात्रा बलैः समुदितेन च । अपोह्य रामं कस्माच्चिद् दारचौर्यं त्वया कृतम् ॥५-२२-२२॥
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः । विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥५-२२-२३॥
नीलजीमूतसंकाशो महाभुजशिरोधरः । सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वोग्रलोचनः ॥५-२२-२४॥
चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः । रक्तमाल्याम्बरधरस्तप्तांगदविभूषणः ॥५-२२-२५॥
श्रोणीसूत्रेण महता मेचकेन सुसंवृतः । अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः ॥५-२२-२६॥
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः । शुशुभेऽचलसंकाशः शृंगाभ्यामिव मन्दरः ॥५-२२-२७॥
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः । रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥५-२२-२८॥
स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान् । श्मशानचैत्यप्रतिमो भूषितोऽपि भयंकरः ॥५-२२-२९॥
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः । उवाच रावणः सीतां भुजंग इव निःश्वसन् ॥५-२२-३०॥
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते । नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा ॥५-२२-३१॥
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः । संददर्श ततः सर्वा राक्षसीर्घोरदर्शनाः ॥५-२२-३२॥
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा । गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ॥५-२२-३३॥
हस्तिपद्यश्वपद्यौ च गोपदीं पादचूलिकाम् । एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥५-२२-३४॥
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् । अतिमात्रास्यनेत्रां च दीर्घजिह्वानखामपि ॥५-२२-३५॥
अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् । यथा मद्वशगा सीता क्षिप्रं भवति जानकी ॥५-२२-३६॥
तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य वा । प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ॥५-२२-३७॥
आवर्जयत वैदेहीं दण्डस्योद्यमनेन च । इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ॥५-२२-३८॥
काममन्युपरीतात्मा जानकीं प्रति गर्जत । उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ॥५-२२-३९॥
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् । मया क्रीड महाराज सीतया किं तवानया ॥५-२२-४०॥
विवर्णया कृपणया मानुष्या राक्षसेश्वर । नूनमस्यां महाराज न देवा भोगसत्तमान् ॥५-२२-४१॥
विदधत्यमरश्रेष्ठास्तव बाहुबलार्जितान् । अकामां कामयानस्य शरीरमुपतप्यते ॥५-२२-४२॥
इच्छतीं कामयानस्य प्रीतिर्भवति शोभना । एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली । प्रहसन् मेघसंकाशो राक्षसः स न्यवर्तत ॥५-२२-४३॥
प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम् । ज्वलद्भास्करसंकाशं प्रविवेश निवेशनम् ॥५-२२-४४॥
देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः । परिवार्य दशग्रीवं प्रविशुस्ता गृहोत्तमम् ॥५-२२-४५॥
स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः । विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश रावणः ॥५-२२-४६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे मासद्वयावधिकरणम् नाम द्वाविंशः सर्गः ॥५-२२॥