प्रणयप्रार्थना

सुन्दरकाण्डः / प्रणयप्रार्थना

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे प्रणयप्रार्थना नाम विंशः सर्गः ॥५-२०॥
स तां परिवृतां दीनां निरानन्दां तपस्विनीम् । साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥५-२०-१॥
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् । अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥५-२०-२॥
कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये । सर्वांगगुणसम्पन्ने सर्वलोकमनोहरे ॥५-२०-३॥
नेह किञ्चिन्मनुष्या वा राक्षसाः कामरूपिणः । व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥५-२०-४॥
स्वधर्मो रक्षसां भीरु सर्वदैव न संशयः । गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा ॥५-२०-५॥
एवं चैवमकामां त्वां न च स्प्रक्ष्यामि मैथिलि । कामं कामः शरीरे मे यथाकामं प्रवर्तताम् ॥५-२०-६॥
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये । प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥५-२०-७॥
एकवेणी अधःशय्या ध्यानं मलिनमम्बरम् । अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥५-२०-८॥
विचित्राणि च माल्यानि चन्दनान्यगुरूणि च । विविधानि च वासांसि दिव्यान्याभरणानि च ॥५-२०-९॥
महार्हाणि च पानानि शयनान्यासनानि च । गीतं नृत्यं च वाद्यं च लभ मां प्राप्य मैथिलि ॥५-२०-१०॥
स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् । मां प्राप्य हि कथं वा स्यास्त्वमनर्हा सुविग्रहे ॥५-२०-११॥
इदं ते चारु संजातं यौवनं ह्यतिवर्तते । यदतीतं पुनर्नैति स्रोतः स्रोतस्विनामिव ॥५-२०-१२॥
त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत् । नहि रूपोपमा ह्यन्या तवास्ति शुभदर्शने ॥५-२०-१३॥
त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् । कः पुनर्नातिवर्तेत साक्षादपि पितामहः ॥५-२०-१४॥
यद् यत् पश्यामि ते गात्रं शीतांशुसदृशानने । तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते ॥५-२०-१५॥
भव मैथिलि भार्या मे मोहमेतं विसर्जय । बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव ॥५-२०-१६॥
लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि मे । तानि ते भीरु सर्वाणि राज्यं चैव ददामि ते ॥५-२०-१७॥
विजित्य पृथिवीं सर्वां नानानगरमालिनीम् । जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥५-२०-१८॥
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् । पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥५-२०-१९॥
असकृत् संयुगे भग्ना मया विमृदितध्वजाः । अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥५-२०-२०॥
इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् । सुप्रभाण्यवसज्जन्तां तवांगे भूषणानि हि ॥५-२०-२१॥
साधु पश्यामि ते रूपं सुयुक्तं प्रतिकर्मणा । प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ॥५-२०-२२॥
भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च । यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ॥५-२०-२३॥
ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च । मत्प्रासादाल्ललन्त्याश्च ललतां बान्धवस्तव ॥५-२०-२४॥
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशस्विनि । किं करिष्यसि रामेण सुभगे चीरवासिना ॥५-२०-२५॥
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः । व्रती स्थण्डिलशायी च शंके जीवति वा न वा ॥५-२०-२६॥
नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलभ्यते । पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥५-२०-२७॥
न चापि मम हस्तात् त्वां प्राप्तुमर्हति राघवः । हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥५-२०-२८॥
चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥५-२०-२९॥
क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम् । त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥५-२०-३०॥
अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः । यावत्यो मम सर्वासामैश्वर्यं कुरु जानकि ॥५-२०-३१॥
मम ह्यसितकेशान्ते त्रैलोक्यप्रवरस्त्रियः । तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥५-२०-३२॥
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च । तानि लोकांश्च सुश्रोणि मया भुङ्क्ष्व यथासुखम् ॥५-२०-३३॥
न रामस्तपसा देवि न बलेन च विक्रमैः । न धनेन मया तुल्यस्तेजसा यशसापि वा ॥५-२०-३४॥
पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च । मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥५-२०-३५॥
कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि । कनकविमलहारभूषितांगी विहर मया सह भीरु काननानि ॥५-२०-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे प्रणयप्रार्थना नाम विंशः सर्गः ॥५-२०॥