राक्षसीपरिवारः

सुन्दरकाण्डः / राक्षसीपरिवारः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे राक्षसीपरिवारः नाम सप्तदशः सर्गः ॥५-१७॥
ततः कुमुदखण्डाभो निर्मलं निर्मलोदयः । प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥५-१७-१॥
साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः । चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥५-१७-२॥
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् । शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥५-१७-३॥
दिदृक्षमाणो वैदेहीं हनूमान् मारुतात्मजः । स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥५-१७-४॥
एकाक्षीमेककर्णां च कर्णप्रावरणां तथा । अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ॥५-१७-५॥
अतिकायोत्तमांगीं च तनुदीर्घशिरोधराम् । ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम् ॥५-१७-६॥
लम्बकर्णललाटां च लम्बोदरपयोधराम् । लम्बोष्ठीं चिबुकोष्ठीं च लम्बास्यां लम्बजानुकाम् ॥५-१७-७॥
ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा । करालां भुग्नवक्त्रां च पिंगाक्षीं विकृताननाम् ॥५-१७-८॥
विकृताः पिंगलाः कालीः क्रोधनाः कलहप्रियाः । कालायसमहाशूलकूटमुद्गरधारिणीः ॥५-१७-९॥
वराहमृगशार्दूलमहिषाजशिवामुखाः । गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः ॥५-१७-१०॥
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः । गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः ॥५-१७-११॥
अतिनासाश्च काश्चिच्च तिर्यङ्नासा अनासिकाः । गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः ॥५-१७-१२॥
हस्तिपादा महापादा गोपादाः पादचूलिकाः । अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ॥५-१७-१३॥
अतिमात्रास्यनेत्राश्च दीर्घजिह्वाननास्तथा । अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ॥५-१७-१४॥
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः । शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥५-१७-१५॥
कराला धूम्रकेशिन्यो राक्षसीर्विकृताननाः । पिबन्ति सततं पानं सुरामांससदाप्रियाः ॥५-१७-१६॥
मांसशोणितदिग्धांगीर्मांसशोणितभोजनाः । ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥५-१७-१७॥
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् । तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम् ॥५-१७-१८॥
लक्षयामास लक्ष्मीवान् हनूमाञ्जनकात्मजाम् । निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् ॥५-१७-१९॥
क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव । चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥५-१७-२०॥
भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम् । राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ॥५-१७-२१॥
वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव । चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम् ॥५-१७-२२॥
क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् । स तां भर्तृहिते युक्तामयुक्तां रक्षसां वशे ॥५-१७-२३॥
अशोकवनिकामध्ये शोकसागरमाप्लुताम् । ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥५-१७-२४॥
ददर्श हनुमांस्तत्र लतामकुसुमामिव । सा मलेन च दिग्धांगी वपुषा चाप्यलंकृता । मृणाली पङ्कदिग्धेव विभाति च न भाति च ॥५-१७-२५॥
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् । संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः ॥५-१७-२६॥
तां देवीं दीनवदनामदीनां भर्तृतेजसा । रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ॥५-१७-२७॥
तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम् । मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः ॥५-१७-२८॥
दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः । संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ॥५-१७-२९॥
तां क्षमां सुविभक्तांगीं विनाभरणशोभिनीम् । प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥५-१७-३०॥
हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् । मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥५-१७-३१॥
नमस्कृत्वाथ रामाय लक्ष्मणाय च वीर्यवान् । सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत् ॥५-१७-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे राक्षसीपरिवारः नाम सप्तदशः सर्गः ॥५-१७॥