अशोकवनिकाविचयः

सुन्दरकाण्डः / अशोकवनिकाविचयः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे अशोकवनिकाविचयः नाम चतुर्दशः सर्गः ॥५-१४॥
स मुहूर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् । अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥५-१४-१॥
स तु संहृष्टसर्वांगः प्राकारस्थो महाकपिः । पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् ॥५-१४-२॥
सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान् । उद्दालकान् नागवृक्षांश्चूतान् कपिमुखानपि ॥५-१४-३॥
तथाऽऽम्रवणसम्पन्नाँल्लताशतसमन्वितान् । ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥५-१४-४॥
स प्रविश्य विचित्रां तां विहगैरभिनादिताम् । राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥५-१४-५॥
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् । उदितादित्यसंकाशां ददर्श हनुमान् बली ॥५-१४-६॥
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः । कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥५-१४-७॥
प्रहृष्टमनुजां काले मृगपक्षिमदाकुलाम् । मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम् ॥५-१४-८॥
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम् । सुखप्रसुप्तान् विहगान् बोधयामास वानरः ॥५-१४-९॥
उत्पतद्भिर्द्विजगणैः पक्षैर्वातैः समाहताः । अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥५-१४-१०॥
पुष्पावकीर्णः शुशुभे हनूमान् मारुतात्मजः । अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥५-१४-११॥
दिशः सर्वाभिधावन्तं वृक्षखण्डगतं कपिम् । दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥५-१४-१२॥
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णाः पृथग्विधैः । रराज वसुधा तत्र प्रमदेव विभूषिता ॥५-१४-१३॥
तरस्विना ते तरवस्तरसा बहु कम्पिताः । कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥५-१४-१४॥
निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः । निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥५-१४-१५॥
हनूमता वेगवता कम्पितास्ते नगोत्तमाः । पुष्पपत्रफलान्याशु मुमुचुः फलशालिनः ॥५-१४-१६॥
विहंगसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः । बभूवुरगमाः सर्वे मारुतेन विनिर्धुताः ॥५-१४-१७॥
विधूतकेशी युवतिर्यथा मृदितवर्णका । निपीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षता ॥५-१४-१८॥
तथा लांगूलहस्तैस्तु चरणाभ्यां च मर्दिता । तथैवाशोकवनिका प्रभग्नवनपादपा ॥५-१४-१९॥
महालतानां दामानि व्यधमत् तरसा कपिः । यथा प्रावृषि वेगेन मेघजालानि मारुतः ॥५-१४-२०॥
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः । तथा काञ्चनभूमीश्च विचरन् ददृशे कपिः ॥५-१४-२१॥
वापीश्च विविधाकाराः पूर्णाः परमवारिणा । महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥५-१४-२२॥
मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः । काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥५-१४-२३॥
बुद्धपद्मोत्पलवनाश्चक्रवाकोपशोभिताः । नत्यूहरुतसंघुष्टा हंससारसनादिताः ॥५-१४-२४॥
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः । अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः ॥५-१४-२५॥
लताशतैरवतताः संतानकुसुमावृताः । नानागुल्मावृतवनाः करवीरकृतान्तराः ॥५-१४-२६॥
ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम् । विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥५-१४-२७॥
शिलागृहैरवततं नानावृक्षसमावृतम् । ददर्श कपिशार्दूलो रम्यं जगति पर्वतम् ॥५-१४-२८॥
ददर्श च नगात् तस्मान्नदीं निपतितां कपिः । अंकादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥५-१४-२९॥
जले निपतिताग्रैश्च पादपैरुपशोभिताम् । वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥५-१४-३०॥
पुनरावृत्ततोयां च ददर्श स महाकपिः । प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥५-१४-३१॥
तस्यादूरात् स पद्मिन्यो नानाद्विजगणायुताः । ददर्श कपिशार्दूलो हनूमान् मारुतात्मजः ॥५-१४-३२॥
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा । मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥५-१४-३३॥
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम् । प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥५-१४-३४॥
काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम् । ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः ॥५-१४-३५॥
सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः । लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् ॥५-१४-३६॥
काञ्चनीं शिंशपामेकां ददर्श स महाकपिः । वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः ॥५-१४-३७॥
सोऽपश्यद् भूमिभागांश्च नगप्रस्रवणानि च । सुवर्णवृक्षानपरान् ददर्श शिखिसंनिभान् ॥५-१४-३८॥
तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः । अमन्यत तदा वीरः काञ्चनोऽस्मीति सर्वतः ॥५-१४-३९॥
तान् काञ्चनान् वृक्षगणान् मारुतेन प्रकम्पितान् । किङ्किणीशतनिर्घोषान् दृष्ट्वा विस्मयमागमत् ॥५-१४-४०॥
सुपुष्पिताग्रान् रुचिरांस्तरुणाङ्कुरपल्लवान् । तामारुह्य महावेगः शिंशपां पर्णसंवृताम् ॥५-१४-४१॥
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम् । इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया ॥५-१४-४२॥
अशोकवनिका चेयं दृढं रम्या दुरात्मनः । चन्दनैश्चम्पकैश्चापि बकुलैश्च विभूषिता ॥५-१४-४३॥
इयं च नलिनी रम्या द्विजसङ्घनिषेविता । इमां सा राजमहिषी नूनमेष्यति जानकी ॥५-१४-४४॥
सा रामा राजमहिषी राघवस्य प्रिया सती । वनसंचारकुशला ध्रुवमेष्यति जानकी ॥५-१४-४५॥
अथवा मृगशावाक्षी वनस्यास्य विचक्षणा । वनमेष्यति साद्येह रामचिन्तासुकर्शिता ॥५-१४-४६॥
रामशोकाभिसंतप्ता सा देवी वामलोचना । वनवासरता नित्यमेष्यते वनचारिणी ॥५-१४-४७॥
वनेचराणां सततं नूनं स्पृहयते पुरा । रामस्य दयिता चार्या जनकस्य सुता सती ॥५-१४-४८॥
संध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी । नदीं चेमां शुभजलां संध्यार्थे वरवर्णिनी ॥५-१४-४९॥
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा । शुभायाः पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता ॥५-१४-५०॥
यदि जीवति सा देवी ताराधिपनिभानना । आगमिष्यति सावश्यमिमां शीतजलां नदीम् ॥५-१४-५१॥
एवं तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् । अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ॥५-१४-५२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अशोकवनिकाविचयः नाम चतुर्दशः सर्गः ॥५-१४॥