हनुमत्प्रतिबोधनम्
किष्किन्धाकाण्डः / हनुमत्प्रतिबोधनम्
Script
Translation
Previous
प्रावृडुज्जृम्भणम्
Next
शरद्वर्णनम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे हनुमत्प्रतिबोधनम् नाम एकोनत्रिंशः सर्गः ॥४-२९॥
समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् ।
सारसाकुलसंघुष्टं रम्यज्योत्स्नानुलेपनम् ॥४-२९-१॥
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम् ।
अत्यर्थं चासतां मार्गमेकान्तगतमानसम् ॥४-२९-२॥
निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।
प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ॥४-२९-३॥
स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् ।
विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥४-२९-४॥
क्रीडन्तमिव देवेशं गन्धर्वाप्सरसां गणैः ।
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ॥४-२९-५॥
उच्छिन्नराज्यसंदेहं कामवृत्तमिव स्थितम् ।
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥४-२९-६॥
प्रसाद्य वाक्यैर्विविधैर्हेतुमद्भिर्मनोरमैः ।
वाक्यविद् वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥४-२९-७॥
हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत् ।
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ॥४-२९-८॥
हरीश्वरमुपागम्य हनूमान् वाक्यमब्रवीत् ।
राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता ॥४-२९-९॥
मित्राणां संग्रहः शेषस्तद् भवान् कर्तुमर्हति ।
यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ॥४-२९-१०॥
तस्य राज्यं च कीर्तिश्च प्रतापश्चापि वर्धते ।
यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ।
समान्येतानि सर्वाणि स राज्यं महदश्नुते ॥४-२९-११॥
तद् भवान् वृत्तसम्पन्नः स्थितः पथि निरत्यये ।
मित्रार्थमभिनीतार्थं यथावत् कर्तुमर्हति ॥४-२९-१२॥
संत्यज्य सर्वकर्माणि मित्रार्थे यो न वर्तते ।
सम्भ्रमाद् विकृतोत्साहः सोऽनर्थैर्नावरुध्यते ॥४-२९-१३॥
यो हि कालव्यतीतेषु मित्रकार्येषु वर्तते ।
स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते ॥४-२९-१४॥
तदिदं मित्रकार्यं नः कालातीतमरिंदम ।
क्रियतां राघवस्यैतद् वैदेह्याः परिमार्गणम् ॥४-२९-१५॥
न च कालमतीतं ते निवेदयति कालवित् ।
त्वरमाणोऽपि स प्राज्ञस्तव राजन् वशानुगः ॥४-२९-१६॥
कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः ।
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥४-२९-१७॥
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ।
हरीश्वर कपिश्रेष्ठानाज्ञापयितुमर्हसि ॥४-२९-१८॥
नहि तावद् भवेत् कालो व्यतीतश्चोदनादृते ।
चोदितस्य हि कार्यस्य भवेत् कालव्यतिक्रमः ॥४-२९-१९॥
अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर ।
किं पुनः प्रतिकर्तुस्ते राज्येन च वधेन च ॥४-२९-२०॥
शक्तिमानतिविक्रान्तो वानरर्क्षगणेश्वर ।
कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे ॥४-२९-२१॥
कामं खलु शरैः शक्तः सुरासुरमहोरगान् ।
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञामवेक्षते ॥४-२९-२२॥
प्राणत्यागाविशंकेन कृतं तेन महत् प्रियम् ।
तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥४-२९-२३॥
देवदानवगन्धर्वा असुराः समरुद्गणाः ।
न च यक्षा भयं तस्य कुर्युः किमिव राक्षसाः ॥४-२९-२४॥
तदेवं शक्तियुक्तस्य पूर्वं प्रतिकृतस्तथा ।
रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ॥४-२९-२५॥
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ।
कस्यचित् सज्जतेऽस्माकं कपीश्वर तवाज्ञया ॥४-२९-२६॥
तदाज्ञापय कः किं ते कुतो वापि व्यवस्यतु ।
हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ ॥४-२९-२७॥
तस्य तद् वचनं श्रुत्वा काले साधु निरूपितम् ।
सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् ॥४-२९-२८॥
संदिदेशातिमतिमान् नीलं नित्यकृतोद्यमम् ।
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे ॥४-२९-२९॥
यथा सेना समग्रा मे यूथपालाश्च सर्वशः ।
समागच्छन्त्यसङ्गेन सेनाग्र्ये ण तथा कुरु ॥४-२९-३०॥
ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः ।
समानयन्तु ते शीघ्रं त्वरिताः शासनान्मम ।
स्वयं चानन्तरं कार्यं भवानेवानुपश्यतु ॥४-२९-३१॥
त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयादिह वानरः ।
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥४-२९-३२॥
हरींश्च वृद्धानुपयातु साङ्गदो भवान् ममाज्ञामधिकृत्य निश्चितम् ।
इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥४-२९-३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे हनुमत्प्रतिबोधनम् नाम एकोनत्रिंशः सर्गः ॥४-२९॥
Previous
प्रावृडुज्जृम्भणम्
Next
शरद्वर्णनम्