सुग्रीवाभिषेकः

किष्किन्धाकाण्डः / सुग्रीवाभिषेकः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे सुग्रीवाभिषेकः नाम षड्विंशः सर्गः ॥४-२६॥
ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवाससम् । शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥४-२६-१॥
अभिगम्य महाबाहुं राममक्लिष्टकारिणम् । स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥४-२६-२॥
ततः काञ्चनशैलाभस्तरुणार्कनिभाननः । अब्रवीत् प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः ॥४-२६-३॥
भवत्प्रसादात् काकुत्स्थ पितृपैतामहं महत् । वानराणां सुदंष्ट्राणां सम्पन्नबलशालिनाम् ॥४-२६-४॥
महात्मनां सुदुष्प्रापं प्राप्तं राज्यमिदं प्रभो । भवता समनुज्ञातः प्रविश्य नगरं शुभम् ॥४-२६-५॥
संविधास्यति कार्याणि सर्वाणि ससुहृद्गणः । स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि ॥४-२६-६॥
अर्चयिष्यति माल्यैश्च रत्नैश्च त्वां विशेषतः । इमां गिरिगुहां रम्यामभिगन्तुं त्वमर्हसि ॥४-२६-७॥
कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षय । एवमुक्तो हनुमता राघवः परवीरहा ॥४-२६-८॥
प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः । चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम् ॥४-२६-९॥
न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः । सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः ॥४-२६-१०॥
प्रविष्टो विधिवद् वीरः क्षिप्रं राज्येऽभिषिच्यताम् । एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् ॥४-२६-११॥
वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम् । इममप्यङ्गदं वीरं यौवराज्येऽभिषेचय ॥४-२६-१२॥
ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च । अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम् ॥४-२६-१३॥
पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः । प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञिताः ॥४-२६-१४॥
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् । अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ॥४-२६-१५॥
इयं गिरिगुहा रम्या विशाला युक्तमारुता । प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥४-२६-१६॥
कार्तिके समनुप्राप्ते त्वं रावणवधे यत । एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ॥४-२६-१७॥
अभिषिञ्चस्व राज्ये च सुहृदः सम्प्रहर्षय । इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः ॥४-२६-१८॥
प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् । तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ॥४-२६-१९॥
अभिवार्य प्रविष्टानि सर्वतः प्लवगेश्वरम् । ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् ॥४-२६-२०॥
प्रणम्य मूर्ध्ना पतिता वसुधायं समाहिताः । सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान् ॥४-२६-२१॥
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः । प्रविष्टं भीमविक्रान्तं सुग्रीवं वानरर्षभम् ॥४-२६-२२॥
अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः । तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम् ॥४-२६-२३॥
शुक्ले च वालव्यजने हेमदण्डे यशस्करे । तथा रत्नानि सर्वाणि सर्वबीजौषधानि च ॥४-२६-२४॥
सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च । शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् ॥४-२६-२५॥
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च । चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहून् ॥४-२६-२६॥
अक्षतं जातरूपं च प्रियङ्गुं मधुसर्पिषी । दधि चर्म च वैयाघ्रं परार्घ्यौ चाप्युपानहौ ॥४-२६-२७॥
समालम्भनमादाय गोरोचनमनःशिलाम् । आजग्मुस्तत्र मुदिता वराः कन्याश्च षोडश ॥४-२६-२८॥
ततस्ते वानरश्रेष्ठमभिषेक्तुं यथाविधि । रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान् ॥४-२६-२९॥
ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम् । मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ॥४-२६-३०॥
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते । प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥४-२६-३१॥
प्राङ्मुखं विधिवन्मन्त्रैः स्थापयित्वा वरासने । नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः ॥४-२६-३२॥
आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः । अपः कनककुम्भेषु निधाय विमलं जलम् ॥४-२६-३३॥
शुभैर्ऋषभशृङ्गैश्च कलशैश्चैव काञ्चनैः । शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥४-२६-३४॥
गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवांस्तथा ॥४-२६-३५॥
अभ्यषिञ्चत सुग्रीवं प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा ॥४-२६-३६॥
अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः । प्रचुक्रुशुर्महात्मानो हृष्टाः शतसहस्रशः ॥४-२६-३७॥
रामस्य तु वचः कुर्वन् सुग्रीवो वानरेश्वरः । अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत् ॥४-२६-३८॥
अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः । साधु साध्विति सुग्रीवं महात्मानो ह्यपूजयन् ॥४-२६-३९॥
रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः । प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि ॥४-२६-४०॥
हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता । बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ॥४-२६-४१॥
निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः । रुमां च भार्यामुपलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा ॥४-२६-४२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सुग्रीवाभिषेकः नाम षड्विंशः सर्गः ॥४-२६॥