सप्तजनाश्रमप्रणामः

किष्किन्धाकाण्डः / सप्तजनाश्रमप्रणामः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे सप्तजनाश्रमप्रणामः नाम त्रयोदशः सर्गः ॥४-१३॥
ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः । जगाम सह सुग्रीवो वालिविक्रमपालिताम् ॥४-१३-१॥
समुद्यम्य महच्चापं रामः काञ्चनभूषितम् । शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान् ॥४-१३-२॥
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः । सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ॥४-१३-३॥
पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान् । तारश्चैव महातेजा हरियूथपयूथपः ॥४-१३-४॥
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः । प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः ॥४-१३-५॥
कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा । शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥४-१३-६॥
वैदूर्यविमलैस्तोयैः पद्मैश्चाकोशकुड्मलैः । शोभितान् सजलान् मार्गे तटाकांश्चावलोकयन् ॥४-१३-७॥
कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः । चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान् ॥४-१३-८॥
मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान् । चरतः सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान् ॥४-१३-९॥
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् । घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः ॥४-१३-१०॥
मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान् । वानरान् द्विरदप्रख्यान् महीरेणुसमुक्षितान् ॥४-१३-११॥
वने वनचरांश्चान्यान् खेचरांश्च विहंगमान् । पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ॥४-१३-१२॥
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः । द्रुमषण्डवनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ॥४-१३-१३॥
एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते । मेघसंघातविपुलः पर्यन्तकदलीवृतः ॥४-१३-१४॥
किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम । कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥४-१३-१५॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । गच्छन् नेवाचचक्षेऽथ सुग्रीवस्तन्महद् वनम् ॥४-१३-१६॥
एतद् राघव विस्तीर्णमाश्रमं श्रमनाशनम् । उद्यानवनसम्पन्नं स्वादुमूलफलोदकम् ॥४-१३-१७॥
अत्र सप्तजना नाम मुनयः संशितव्रताः । सप्तैवासन्नधःशीर्षा नियतं जलशायिनः ॥४-१३-१८॥
सप्तरात्रे कृताहारा वायुनाचलवासिनः । दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः ॥४-१३-१९॥
तेषामेतत्प्रभावेण द्रुमप्राकारसंवृतम् । आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः ॥४-१३-२०॥
पक्षिणो वर्जयन्त्येतत् तथान्ये वनचारिणः । विशन्ति मोहाद् येऽप्यत्र न निवर्तन्ति ते पुनः ॥४-१३-२१॥
विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः । तूर्यगीतस्वनश्चापि गन्धो दिव्यश्च राघव ॥४-१३-२२॥
त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते । वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः ॥४-१३-२३॥
एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः । मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ॥४-१३-२४॥
कुरु प्रणामं धर्मात्मंस्तेषामुद्दिश्य राघव । लक्ष्मणेन सह भ्रात्रा प्रयतः संहताञ्जलिः ॥४-१३-२५॥
प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम् । न तेषामशुभं किंचिच्छरीरे राम विद्यते ॥४-१३-२६॥
ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः । समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् ॥४-१३-२७॥
अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः । सुग्रीवो वानराश्चैव जम्मुः संहृष्टमानसाः ॥४-१३-२८॥
ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात् । ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् ॥४-१३-२९॥
ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदितोग्रतेजसः । पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागतास्त्विह ॥४-१३-३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तजनाश्रमप्रणामः नाम त्रयोदशः सर्गः ॥४-१३॥