रामविप्रलम्भावेशः

किष्किन्धाकाण्डः / रामविप्रलम्भावेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे रामविप्रलम्भावेशः नाम प्रथमः सर्गः ॥४-१॥
स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् । रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥४-१-१॥
तत्र दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे । स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ॥४-१-२॥
सौमित्रे शोभते पम्पा वैदूर्यविमलोदका । फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः ॥४-१-३॥
सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् । यत्र राजन्ति शैला वा द्रुमाः सशिखरा इव ॥४-१-४॥
मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै । भरतस्य च दुःखेन वैदेह्या हरणेन च ॥४-१-५॥
शोकार्तस्यापि मे पम्पा शोभते चित्रकानना । व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा ॥४-१-६॥
नलिनैरपि संछन्ना ह्यत्यर्थशुभदर्शना । सर्पव्यालानुचरिता मृगद्विजसमाकुला ॥४-१-७॥
अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् । द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ॥४-१-८॥
पुष्पभारसमृद्धानि शिखराणि समन्ततः । लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः ॥४-१-९॥
सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः । गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः ॥४-१-१०॥
पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् । सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव ॥४-१-११॥
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ॥४-१-१२॥
पतितैः पतमानैश्च पादपस्थैश्च मारुतः । कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः ॥४-१-१३॥
विक्षिपन् विविधाः शाखां नगानां कुसुमोत्कटाः । मारुतश्चलितस्थानैः षट्पदैरनुगीयते ॥४-१-१४॥
मत्तकोकिलसंनादैर्नर्तयन्निव पादपान् । शैलकंदर निष्क्रान्तः प्रगीत इव चानिलः ॥४-१-१५॥
तेन विक्षिपतात्यर्थं पवनेन समन्ततः । अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ॥४-१-१६॥
स एव सुखसंस्पर्शो वाति चन्दनशीतलः । गन्धमभ्यवहन् पुण्यं श्रमापनयनोऽनिलः ॥४-१-१७॥
अमी पवनविक्षिप्ता विनदन्तीव पादपाः । षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥४-१-१८॥
गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः । संसक्तशिखराः शैला विराजन्ति महाद्रुमैः ॥४-१-१९॥
पुष्पसंछन्नशिखरा मारुतोत्क्षेपचञ्चलाः । अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥४-१-२०॥
सुपुष्पितांस्तु पश्यैतान् कर्णिकारान् समन्ततः । हाटकप्रतिसंछन्नान् नरान् पीताम्बरानिव ॥४-१-२१॥
अयं वसन्तः सौमित्रे नानाविहगनादितः । सीतया विप्रहीणस्य शोकसंदीपनो मम ॥४-१-२२॥
मां हि शोकसमाक्रान्तं संतापयति मन्मथः । हृष्टं प्रवदमानश्च समाह्वयति कोकिलः ॥४-१-२३॥
एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे । प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥४-१-२४॥
श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया । मामाहूय प्रमुदिताः परमं प्रत्यनन्दत ॥४-१-२५॥
एवं विचित्राः पतगा नानारावविराविणः । वृक्षगुल्मलताः पश्य सम्पतन्ति समन्ततः ॥४-१-२६॥
विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनन्दिताः । भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः ॥४-१-२७॥
अस्याः कूले प्रमुदिताः सङ्घशः शकुनास्त्विह । दात्यूहरतिविक्रन्दैः पुंस्कोकिलरुतैरपि ॥४-१-२८॥
स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपकाः । अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः ॥४-१-२९॥
मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति । नहि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम् ॥४-१-३०॥
अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् । अयं हि रुचिरस्तस्याः कालो रुचिरकाननः ॥४-१-३१॥
कोकिलाकुलसीमान्तो दयिताया ममानघ । मन्मथायाससम्भूतो वसन्तगुणवर्धितः ॥४-१-३२॥
अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव । अपश्यतस्तां वनितां पश्यतो रुचिरान् द्रुमान् ॥४-१-३३॥
ममायमात्मप्रभवो भूयस्त्वमुपयास्यति । अदृश्यमाना वैदेही शोकं वर्धयतीह मे ॥४-१-३४॥
दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः । मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् ॥४-१-३५॥
संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः । अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः ॥४-१-३६॥
स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव । शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः ॥४-१-३७॥
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः । पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति ॥४-१-३८॥
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुनि । तामेव मनसा रामां मयूरोऽप्यनुधावति ॥४-१-३९॥
वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव । मयूरस्य वने नूनं रक्षसा न हृता प्रिया ॥४-१-४०॥
तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया । मम त्वयं विना वासः पुष्पमासे सुदुःसहः ॥४-१-४१॥
पश्य लक्ष्मण संरागस्तिर्यग्योनिगतेष्वपि । यदेषा शिखिनी कामाद् भर्तारमभिवर्तते ॥४-१-४२॥
ममाप्येवं विशालाक्षी जानकी जातसम्भ्रमा । मदनेनाभिवर्तेत यदि नापहृता भवेत् ॥४-१-४३॥
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे । पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥४-१-४४॥
रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया । निष्फलानि महीं यान्ति समं मधुकरोत्करैः ॥४-१-४५॥
नदन्ति कामं शकुना मुदिताः सङ्घशः कलम् । आह्वयन्त इवान्योन्यं कामोन्मादकरा मम ॥४-१-४६॥
वसन्तो यदि तत्रापि यत्र मे वसति प्रिया । नूनं परवशा सीता सापि शोचत्यहं यथा ॥४-१-४७॥
नूनं न तु वसन्तस्तं देशं स्पृशति यत्र सा । कथं ह्यसितपद्माक्षी वर्तयेत् सा मया विना ॥४-१-४८॥
अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया । किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः ॥४-१-४९॥
श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया । नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम् ॥४-१-५०॥
दृढं हि हृदये बुद्धिर्मम सम्परिवर्तते । नालं वर्तयितुं सीता साध्वी मद्विरहं गता ॥४-१-५१॥
मयि भावो हि वैदेह्यास्तत्त्वतो विनिवेशितः । ममापि भावः सीतायां सर्वथा विनिवेशितः ॥४-१-५२॥
एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः । तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥४-१-५३॥
सदा सुखमहं मन्ये यं पुरा सह सीतया । मारुतः स विना सीतां शोकसंजननो मम ॥४-१-५४॥
तां विनाथ विहङ्गोऽसौ पक्षी प्रणदितस्तदा । वायसः पादपगतः प्रहृष्टमभिकूजति ॥४-१-५५॥
एष वै तत्र वैदेह्या विहगः प्रतिहारकः । पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥४-१-५६॥
पश्य लक्ष्मण संनादं वने मदविवर्धनम् । पुष्पिताग्रेषु वृक्षेषु द्विजानामवकूजताम् ॥४-१-५७॥
विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम् । षट्पदः सहसाभ्येति मदोद्धूतामिव प्रियाम् ॥४-१-५८॥
कामिनामयमत्यन्तमशोकः शोकवर्धनः । स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः ॥४-१-५९॥
अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः । विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव ॥४-१-६०॥
सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु । किंनरा नरशार्दूल विचरन्ति यतस्ततः ॥४-१-६१॥
इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः । नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥४-१-६२॥
एषा प्रसन्नसलिला पद्मनीलोत्पलायुता । हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता ॥४-१-६३॥
जले तरुणसूर्याभैः षट्पदाहतकेसरैः । पङ्कजैः शोभते पम्पा समन्तादभिसंवृता ॥४-१-६४॥
चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा । मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ॥४-१-६५॥
पवनाहतवेगाभिरूर्मिभिर्विमलेऽम्भसि । पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥४-१-६६॥
पद्मपत्रविशालाक्षीं सततं प्रियपङ्कजाम् । अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ॥४-१-६७॥
अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् । स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ॥४-१-६८॥
शक्यो धारयितुं कामो भवेदभ्यागतो मया । यदि भूयो वसन्तो मां न हन्यात् पुष्पितद्रुमः ॥४-१-६९॥
यानि स्म रमणीयानि तया सह भवन्ति मे । तान्येवारमणीयानि जायन्ते मे तया विना ॥४-१-७०॥
पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते । सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥४-१-७१॥
पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः । निःश्वास इव सीताया वाति वायुर्मनोहरः ॥४-१-७२॥
सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुषु । पुष्पितां कर्णिकारस्य यष्टिं परमशोभिताम् ॥४-१-७३॥
अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः । विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ॥४-१-७४॥
गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः । निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥४-१-७५॥
पम्पातीररुहाश्चेमे संसिक्ता मधुगन्धिनः । मालतीमल्लिकापद्मकरवीराश्च पुष्पिताः ॥४-१-७६॥
केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः । माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ॥४-१-७७॥
चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा । चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ॥४-१-७८॥
पद्मकाश्चैव शोभन्ते नीलाशोकाश्च पुष्पिताः । लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः ॥४-१-७९॥
अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः । चूताः पाटलयश्चापि कोविदाराश्च पुष्पिताः ॥४-१-८०॥
मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु । केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः ॥४-१-८१॥
शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा । तिनिशा नक्तमालाश्च चन्दनाः स्यन्दनास्तथा ॥४-१-८२॥
हिन्तालास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः । पुष्पितान् पुष्पिताग्राभिर्लताभिः परिवेष्टितान् ॥४-१-८३॥
द्रुमान् पश्येह सौमित्रे पम्पाया रुचिरान् बहून् । वातविक्षिप्तविटपान् यथासन्नान् द्रुमानिमान् ॥४-१-८४॥
लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः । पादपात् पादपं गच्छन् शैलाच्छैलं वनाद् वनम् ॥४-१-८५॥
वाति नैकरसास्वादसम्मोदित इवानिलः । केचित् पर्याप्तकुसुमाः पादपा मधुगन्धिनः ॥४-१-८६॥
केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः । इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि ॥४-१-८७॥
रागरक्तो मधुकरः कुसुमेष्वेव लीयते । निलीय पुनरुत्पत्य सहसान्यत्र गच्छति । मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ ॥४-१-८८॥
इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता । स्वयं निपतितैर्भूमिः शयनप्रस्तरैरिव ॥४-१-८९॥
विविधा विविधैः पुष्पैस्तैरेव नगसानुषु । विस्तीर्णाः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः ॥४-१-९०॥
हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् । पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः ॥४-१-९१॥
आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः । कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण ॥४-१-९२॥
एष कारण्डवः पक्षी विगाह्य सलिलं शुभम् । रमते कान्तया सार्धं काममुद्दीपयन्निव ॥४-१-९३॥
मन्दाकिन्यास्तु यदिदं रूपमेतन्मनोरमम् । स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥४-१-९४॥
यदि दृश्येत सा साध्वी यदि चेह वसेमहि । स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम ॥४-१-९५॥
न ह्येवं रमणीयेषु शाद्वलेषु तया सह । रमतो मे भवेच्चिन्ता न स्पृहान्येषु वा भवेत् ॥४-१-९६॥
अमी हि विविधैः पुष्पैस्तरवो विविधच्छदाः । काननेऽस्मिन् विना कान्तां चिन्तामुत्पादयन्ति मे ॥४-१-९७॥
पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् । चक्रवाकानुचरितां कारण्डवनिषेविताम् ॥४-१-९८॥
प्लवैः क्रौञ्चैश्च सम्पूर्णां महामृगनिषेविताम् । अधिकं शोभते पम्पा विकूजद्भिर्विहंगमैः ॥४-१-९९॥
दीपयन्तीव मे कामं विविधा मुदिता द्विजाः । श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥४-१-१००॥
पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् । मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् । व्यथयन्तीव मे चित्तं संचरन्तस्ततस्ततः ॥४-१-१०१॥
अस्मिन् सानुनि रम्ये हि मत्तद्विजगणाकुले । पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम ॥४-१-१०२॥
जीवेयं खलु सौमित्रे मया सह सुमध्यमा । सेवेत यदि वैदेही पम्पायाः पवनं शुभम् ॥४-१-१०३॥
पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण सेवन्ते पम्पाया वनमारुतम् ॥४-१-१०४॥
श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया । कथं धारयति प्राणान् विवशा जनकात्मजा ॥४-१-१०५॥
किं नु वक्ष्यामि धर्मज्ञं राजानं सत्यवादिनम् । जनकं पृष्टसीतं तं कुशलं जनसंसदि ॥४-१-१०६॥
या मामनुगता मन्दं पित्रा प्रस्थापितं वनम् । सीता धर्मं समास्थाय क्व नु सा वर्तते प्रिया ॥४-१-१०७॥
तया विहीनः कृपणः कथं लक्ष्मण धारये । या मामनुगता राज्याद् भ्रष्टं विहतचेतसम् ॥४-१-१०८॥
तच्चार्वाञ्चितपद्माक्षं सुगन्धि शुभमव्रणम् । अपश्यतो मुखं तस्याः सीदतीव मतिर्मम ॥४-१-१०९॥
स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम् । वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ॥४-१-११०॥
प्राप्य दुःखं वने श्यामा मां मन्मथविकर्शितम् । नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत ॥४-१-१११॥
किं नु वक्ष्याम्ययोध्यायां कौसल्यां हि नृपात्मज । क्व सा स्नुषेति पृच्छन्तीं कथं चापि मनस्विनीम् ॥४-१-११२॥
गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम् । नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥४-१-११३॥
इति रामं महात्मानं विलपन्तमनाथवत् । उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ॥४-१-११४॥
संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम । नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ॥४-१-११५॥
स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने । अतिस्नेहपरिष्वङ्गाद् वर्तिरार्द्रापि दह्यते ॥४-१-११६॥
यदि गच्छति पातालं ततोऽभ्यधिकमेव वा । सर्वथा रावणस्तात न भविष्यति राघव ॥४-१-११७॥
प्रवृत्तिर्लभ्यतां तावत् तस्य पापस्य रक्षसः । ततो हास्यति वा सीतां निधनं वा गमिष्यति ॥४-१-११८॥
यदि याति दितेर्गर्भं रावणं सह सीतया । तत्राप्येनं हनिष्यामि न चेद् दास्यति मैथिलीम् ॥४-१-११९॥
स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः । अर्थो हि नष्टकार्यार्थैरयत्नेनाधिगम्यते ॥४-१-१२०॥
उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् । सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम् ॥४-१-१२१॥
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु । उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकीम् ॥४-१-१२२॥
त्यजतां कामवृत्तत्वं शोकं संन्यस्य पृष्ठतः । महात्मानं कृतात्मानमात्मानं नावबुध्यसे ॥४-१-१२३॥
एवं सम्बोधितस्तेन शोकोपहतचेतनः । त्यज्य शोकं च मोहं च रामो धैर्यमुपागमत् ॥४-१-१२४॥
सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः । रामः पम्पां सुरुचिरां रम्यां पारिप्लवद्रुमाम् ॥४-१-१२५॥
निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरं च । उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥४-१-१२६॥
तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा । स लक्ष्मणो राघवमिष्टचेष्टो ररक्ष धर्मेण बलेन चैव ॥४-१-१२७॥
तावृष्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ । शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव विचेष्ट चेष्टाम् ॥४-१-१२८॥
स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चरंश्चरन्तौ । दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारभग्नः ॥४-१-१२९॥
तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् । त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ ॥४-१-१३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे रामविप्रलम्भावेशः नाम प्रथमः सर्गः ॥४-१॥