सुतीक्ष्णाश्रमः
अरण्यकाण्डः / सुतीक्ष्णाश्रमः
Script
Translation
Previous
रक्षोवधप्रतिज्ञानम्
Next
सुतीक्ष्णाभ्यनुज्ञा
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे सुतीक्ष्णाश्रमः नाम सप्तमः सर्गः ॥३-७॥
रामस्तु सहितो भ्रात्रा सीतया च परंतपः ।
सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥३-७-१॥
स गत्वा दूरमध्वानं नदीस्तीर्त्वा बहूदकाः ।
ददर्श विमलं शैलं महामेरुमिवोन्नतम् ॥३-७-२॥
ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः ।
काननं तौ विविशतुः सीतया सह राघवौ ॥३-७-३॥
प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ।
ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ॥३-७-४॥
तत्र तापसमासीनं मलपङ्कजधारिणम् ।
रामः सुतीक्ष्णं विधिवत् तपोधनमभाषत ॥३-७-५॥
रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः ।
तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥३-७-६॥
स निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम् ।
समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥३-७-७॥
स्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर ।
आश्रमोऽयं त्वयाऽऽक्रान्तः सनाथ इव साम्प्रतम् ॥३-७-८॥
प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः ।
देवलोकमितो वीर देहं त्यक्त्वा महीतले ॥३-७-९॥
चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ।
इहोपयातः काकुत्स्थ देवराजः शतक्रतुः ॥३-७-१०॥
उपागम्य च मे देवो महादेवः सुरेश्वरः ।
सर्वाल्ँ लोकाञ्जितानाह मम पुण्येन कर्मणा ॥३-७-११॥
तेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।
मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥३-७-१२॥
तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम् ।
प्रत्युवाचात्मवान् रामो ब्रह्माणमिव वासवः ॥३-७-१३॥
अहमेवाहरिष्यामि स्वयं लोकान् महामुने ।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥३-७-१४॥
भवान् सर्वत्र कुशलः सर्वभूतहिते रतः ।
आख्यातं शरभङ्गेन गौतमेन महात्मना ॥३-७-१५॥
एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः ।
अब्रवीन्मधुरं वाक्यं हर्षेण महता युतः ॥३-७-१६॥
अयमेवाश्रमो राम गुणवान् रम्यतामिति ।
ऋषिसंघानुचरितः सदा मूलफलैर्युतः ॥३-७-१७॥
इममाश्रममागम्य मृगसंघा महीयसः ।
अहत्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ॥३-७-१८॥
नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ।
तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ॥३-७-१९॥
उवाच वचनं धीरो विगृह्य सशरं धनुः ।
तानहं सुमहाभाग मृगसंघान् समागतान् ॥३-७-२०॥
हन्यां निशितधारेण शरेणानतपर्वणा ।
भवांस्तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः ॥३-७-२१॥
एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ।
तमेवमुक्त्वोपरमं रामः संध्यामुपागमत् ॥३-७-२२॥
अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् ।
सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥३-७-२३॥
ततः शुभं तापसयोग्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ।
ताभ्यां सुसत्कृत्य ददौ महात्मा संध्यानिवृत्तौ रजनीं समीक्ष्य ॥३-७-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सुतीक्ष्णाश्रमः नाम सप्तमः सर्गः ॥३-७॥
Previous
रक्षोवधप्रतिज्ञानम्
Next
सुतीक्ष्णाभ्यनुज्ञा