सीतान्वेषणम्
अरण्यकाण्डः / सीतान्वेषणम्
Script
Translation
Previous
रामोन्मादः
Next
राघवविलापः
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे सीतान्वेषणम् नाम एकषष्ठितमः सर्गः ॥३-६१॥
दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः ।
रहितां पर्णशालां च प्रविद्धान्यासनानि च ॥३-६१-१॥
अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः ।
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥३-६१-२॥
क्व नु लक्ष्मण वैदेही कं वा देशमितो गता ।
केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥३-६१-३॥
वृक्षेणावार्य यदि मां सीते हसितुमिच्छसि ।
अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥३-६१-४॥
यैः परिक्रीडसे सीते विश्वस्तैर्मृगपोतकैः ।
एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः ॥३-६१-५॥
सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण ।
वृतं शोकेन महता सीताहरणजेन माम् ॥३-६१-६॥
परलोके महाराजो नूनं द्रक्ष्यति मे पिता ।
कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ॥३-६१-७॥
अपूरयित्वा तं कालं मत्सकाशमिहागतः ।
कामवृत्तमनार्यं वा मृषावादिनमेव च ॥३-६१-८॥
धिक् त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ।
विवशं शोकसंतप्तं दीनं भग्नमनोरथम् ॥३-६१-९॥
मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् ।
क्व गच्छसि वरारोहे मा मोत्सृज सुमध्यमे ॥३-६१-१०॥
त्वया विरहितश्चाहं त्यक्ष्ये जीवितमात्मनः ।
इतीव विलपन् रामः सीतादर्शनलालसः ॥३-६१-११॥
न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् ।
अनासादयमानं तं सीतां शोकपरायणम् ॥३-६१-१२॥
पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् ।
लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥३-६१-१३॥
मा विषादं महाबुद्धे कुरु यत्नं मया सह ।
इदं गिरिवरं वीर बहुकन्दरशोभितम् ॥३-६१-१४॥
प्रियकाननसंचारा वनोन्मत्ता च मैथिली ।
सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ॥३-६१-१५॥
सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम् ।
वित्रासयितुकामा वा लीना स्यात् कानने क्वचित् ॥३-६१-१६॥
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ।
तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे ॥३-६१-१७॥
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा ।
मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥३-६१-१८॥
एवमुक्तः स सौहार्दाल्लक्ष्मणेन समाहितः ।
सह सौमित्रिणा रामो विचेतुमुपचक्रमे ॥३-६१-१९॥
तौ वनानि गिरींश्चैव सरितश्च सरांसि च ।
निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ ॥३-६१-२०॥
तस्य शैलस्य सानूनि शिलाश्च शिखराणि च ।
निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः ॥३-६१-२१॥
विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् ।
नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम् ॥३-६१-२२॥
ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् ।
विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम् ॥३-६१-२३॥
प्राप्स्यसे त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् ।
यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम् ॥३-६१-२४॥
एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः ।
उवाच दीनया वाचा दुःखाभिहतचेतनः ॥३-६१-२५॥
वनं सुविचितं सर्वं पद्मिन्यः फुल्लपङ्कजाः ।
गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः ।
नहि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥३-६१-२६॥
एवं स विलपन् रामः सीताहरणकर्षितः ।
दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् ॥३-६१-२७॥
स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः ।
निषसादातुरो दीनो निःश्वस्याशीतमायतम् ॥३-६१-२८॥
बहुशः स तु निःश्वस्य रामो राजीवलोचनः ।
हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ॥३-६१-२९॥
तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवम् ।
बहुप्रकारं शोकार्तः प्रश्रितः प्रश्रिताञ्जलिः ॥३-६१-३०॥
अनादृत्य तु तद् वाक्यं लक्ष्मणोष्ठपुटच्युतम् ।
अपश्यंस्तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः ॥३-६१-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सीतान्वेषणम् नाम एकषष्ठितमः सर्गः ॥३-६१॥
Previous
रामोन्मादः
Next
राघवविलापः