शरभङ्गब्रह्मलोकप्रस्थानम्
अरण्यकाण्डः / शरभङ्गब्रह्मलोकप्रस्थानम्
Script
Translation
Previous
विराधनिखननम्
Next
रक्षोवधप्रतिज्ञानम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे शरभङ्गब्रह्मलोकप्रस्थानम् नाम पञ्चमः सर्गः ॥३-५॥
हत्वा तु तं भीमबलं विराधं राक्षसं वने ।
ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ॥३-५-१॥
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ।
कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः ॥३-५-२॥
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् ।
आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह ॥३-५-३॥
तस्य देवप्रभावस्य तपसा भावितात्मनः ।
समीपे शरभङ्गस्य ददर्श महदद्भुतम् ॥३-५-४॥
विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् ।
रथप्रवरमारूढमाकाशे विबुधानुगम् ॥३-५-५॥
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ।
सम्प्रभाभरणं देवं विरजोऽम्बरधारिणम् ॥३-५-६॥
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः ।
हरितैर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥३-५-७॥
ददर्शादूरतस्तस्य तरुणादित्यसंनिभम् ।
पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् ॥३-५-८॥
अपश्यद् विमलं छत्रं चित्रमाल्योपशोभितम् ।
चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने ॥३-५-९॥
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि ।
गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ॥३-५-१०॥
अन्तरिक्षगतं देवं गीर्भिरग्र्या भिरैडयन् ।
सह सम्भाषमाणे तु शरभङ्गेन वासवे ॥३-५-११॥
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ।
रामोऽथ रथमुद्दिश्य भ्रातुर्दर्शयताद्भुतम् ॥३-५-१२॥
अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण ।
प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम् ॥३-५-१३॥
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः ।
अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥३-५-१४॥
इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो दिशम् ।
शतं शतं कुण्डलिनो युवानः खड्गपाणयः ॥३-५-१५॥
विस्तीर्णविपुलोरस्काः परिघायतबाहवः ।
शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः ॥३-५-१६॥
उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः ।
रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥३-५-१७॥
एतद्धि किल देवानां वयो भवति नित्यदा ।
यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥३-५-१८॥
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण ।
यावज्जानाम्यहं व्यक्तं क एष द्युतिमान् रथे ॥३-५-१९॥
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति ।
अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ॥३-५-२०॥
ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः ।
शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत् ॥३-५-२१॥
इहोपयात्यसौ रामो यावन्मां नाभिभाषते ।
निष्ठां नयत तावत् तु ततो माद्रष्टुमर्हति ॥३-५-२२॥
जितवन्तं कृतार्थं हि तदाहमचिरादिमम् ।
कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम् ॥३-५-२३॥
अथ वज्री तमामन्त्र्य मानयित्वा च तापसम् ।
रथेन हययुक्तेन ययौ दिवमरिंदमः ॥३-५-२४॥
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः ।
अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् ॥३-५-२५॥
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः ।
निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः ॥३-५-२६॥
ततः शक्रोपयानं तु पर्यपृच्छत राघवः ।
शरभङ्गश्च तत् सर्वं राघवाय न्यवेदयत् ॥३-५-२७॥
मामेष वरदो राम ब्रह्मलोकं निनीषति ।
जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ॥३-५-२८॥
अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः ।
ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ॥३-५-२९॥
त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना ।
समागम्य गमिष्यामि त्रिदिवं चावरं परम् ॥३-५-३०॥
अक्षया नरशार्दूल जिता लोका मया शुभाः ।
ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् ॥३-५-३१॥
एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः ।
ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत् ॥३-५-३२॥
अहमेवाहरिष्यामि सर्वाल्ँ लोकान् महामुने ।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥३-५-३३॥
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै ।
शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद् वचः ॥३-५-३४॥
इह राम महातेजाः सुतीक्ष्णो नाम धार्मिकः ।
वसत्यरण्ये नियतः स ते श्रेयो विधास्यति ॥३-५-३५॥
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम् ।
रमणीये वनोद्देशे स ते वासं विधास्यति ॥३-५-३६॥
इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज ।
नदीं पुष्पोडुपवहां ततस्तत्र गमिष्यसि ॥३-५-३७॥
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम् ।
यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः ॥३-५-३८॥
ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवत् ।
शरभङ्गो महातेजाः प्रविवेश हुताशनम् ॥३-५-३९॥
तस्य रोमाणि केशांश्च तदा वह्निर्महात्मनः ।
जीर्णां त्वचं तदस्थीनि यच्च मांसं च शोणितम् ॥३-५-४०॥
स च पावकसंकाशः कुमारः समपद्यत ।
उत्थायाग्निचयात् तस्माच्छरभङ्गो व्यरोचत ॥३-५-४१॥
स लोकानाहिताग्नीनामृषीणां च महात्मनाम् ।
देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥३-५-४२॥
स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह ।
पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह ॥३-५-४३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे शरभङ्गब्रह्मलोकप्रस्थानम् नाम पञ्चमः सर्गः ॥३-५॥
Previous
विराधनिखननम्
Next
रक्षोवधप्रतिज्ञानम्