खरगदाभेदनम्

अरण्यकाण्डः / खरगदाभेदनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे खरगदाभेदनम् नाम एकोनत्रिंशः सर्गः ॥३-२९॥
खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ॥३-२९-१॥
गजाश्वरथसम्बाधे बले महति तिष्ठता । कृतं ते दारुणं कर्म सर्वलोकजुगुप्सितम् ॥३-२९-२॥
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् । त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥३-२९-३॥
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर । तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥३-२९-४॥
लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते । हृष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥३-२९-५॥
वसतो दण्डकारण्ये तापसान् धर्मचारिणः । किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ॥३-२९-६॥
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः । ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥३-२९-७॥
अवश्यं लभते कर्ता फलं पापस्य कर्मणः । घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥३-२९-८॥
नचिरात् प्राप्यते लोके पापानां कर्मणां फलम् । सविषाणामिवान्नानां भुक्तानां क्षणदाचर ॥३-२९-९॥
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् । अहमासादितो राज्ञा प्राणान् हन्तुं निशाचर ॥३-२९-१०॥
अद्य भित्त्वा मया मुक्ताः शराः काञ्चनभूषणाः । विदार्यातिपतिष्यन्ति वल्मीकमिव पन्नगाः ॥३-२९-११॥
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः । तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि ॥३-२९-१२॥
अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः । निरयस्थं विमानस्था ये त्वया निहताः पुरा ॥३-२९-१३॥
प्रहरस्व यथाकामं कुरु यत्नं कुलाधम । अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥३-२९-१४॥
एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः । प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्च्छितः ॥३-२९-१५॥
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज । आत्मना कथमात्मानमप्रशस्यं प्रशंससि ॥३-२९-१६॥
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः । कथयन्ति न ते किंचित् तेजसा चातिगर्विताः ॥३-२९-१७॥
प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः । निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥३-२९-१८॥
कुलं व्यपदिशन् वीरः समरे कोऽभिधास्यति । मृत्युकाले तु सम्प्राप्ते स्वयमप्रस्तवे स्तवम् ॥३-२९-१९॥
सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥३-२९-२०॥
न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् । धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ॥३-२९-२१॥
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव । त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥३-२९-२२॥
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् । अस्तं प्राप्नोति सविता युद्धविघ्नस्ततो भवेत् ॥३-२९-२३॥
चतुर्दश सहस्राणि राक्षसानां हतानि ते । त्वद्विनाशात् करोम्यद्य तेषामश्रुप्रमार्जनम् ॥३-२९-२४॥
इत्युक्त्वा परमक्रुद्धः स गदां परमाङ्गदाम् । खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ॥३-२९-२५॥
खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा । भस्म वृक्षांश्च गुल्मांश्च कृत्वागात् तत्समीपतः ॥३-२९-२६॥
तामापतन्तीं महतीं मृत्युपाशोपमां गदाम् । अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ॥३-२९-२७॥
सा विशीर्णा शरैर्भिन्ना पपात धरणीतले । गदा मन्त्रौषधिबलैर्व्यालीव विनिपातिता ॥३-२९-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे खरगदाभेदनम् नाम एकोनत्रिंशः सर्गः ॥३-२९॥