गुहागमनम्

अयोध्याकाण्डः / गुहागमनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे गुहागमनम् नाम चतुरशीतितमः सर्गः ॥२-८४॥
ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् । निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-१॥
महती इयम् अतः सेना सागर आभा प्रदृश्यते । न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-२॥
यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः । स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-३॥
बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति । अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-४॥
सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् । भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-५॥
भर्ता चैव सखा चैव रामः दाशरथिर् मम । तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-६॥
तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् । बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-७॥
नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् । सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-८॥
यदा तुष्टः तु भरतः रामस्य इह भविष्यति । सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-९॥
इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च । अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥२-८४-१०॥
तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् । भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-११॥
एष ज्ञाति सहस्रेण स्थपतिः परिवारितः । कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-१२॥
तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः । असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-१३॥
एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् । उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-१४॥
लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः । आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-१५॥
निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् । निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-१६॥
अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् । आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-१७॥
आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् । अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥२-८४-१८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे गुहागमनम् नाम चतुरशीतितमः सर्गः ॥२-८४॥