सभास्थानम्

अयोध्याकाण्डः / सभास्थानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे सभास्थानम् नाम एकाशीतितमः सर्गः ॥२-८१॥
ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः । तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-१॥
सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः । दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-२॥
स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव । भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-३॥
ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च । न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-४॥
पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् । विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-५॥
तस्य एषा धर्म राजस्य धर्म मूला महात्मनः । परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-६॥
यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् । अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-७॥
इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् । कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-८॥
तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् । सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-९॥
शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् । सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-१०॥
स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् । अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-११॥
ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् । क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-१२॥
सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् । युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-१३॥
ततः हलहला शब्दो महान् समुदपद्यत । रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-१४॥
ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः । प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-१५॥
ह्रदैव तिमि नाग सम्वृतः । स्तिमित जलो मणि शन्ख शर्करः । दशरथ सुत शोभिता सभा । सदशरथा इव बभौ यथा पुरा ॥२-८१-१६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सभास्थानम् नाम एकाशीतितमः सर्गः ॥२-८१॥