मन्थरोपजापः

अयोध्याकाण्डः / मन्थरोपजापः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे मन्थरोपजापः नाम अष्टमः सर्गः ॥२-८॥
मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं हि तत् । उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥२-८-१॥
हर्षं किमर्थमस्थाने कृतवत्यसि बालिशे । शोकसागरमध्यस्थं नात्मानमवबुध्यसे ॥२-८-२॥
मनसा प्रसहामि त्वां देवि दुःखार्दिता सती । यच्छोचितव्ये हृष्टासि प्राप्य त्वं व्यसनं महत् ॥२-८-३॥
शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् । अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम् ॥२-८-४॥
भरतादेव रामस्य राज्यसाधारणाद् भयम् । तद् विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते ॥२-८-५॥
लक्ष्मणो हि महाबाहू रामं सर्वात्मना गतः । शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ॥२-८-६॥
प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि । राज्यक्रमो विसृष्टस्तु तयोस्तावद्यवीयसोः ॥२-८-७॥
विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः । भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥२-८-८॥
सुभगा किल कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते । यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥२-८-९॥
प्राप्तां वसुमतीं प्रीतिं प्रतीतां हतविद्विषम् । उपस्थास्यसि कौसल्यां दासीवत् त्वं कृताञ्जलिः ॥२-८-१०॥
एवं च त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि । पुत्रश्च तव रामस्य प्रेष्यत्वं हि गमिष्यति ॥२-८-११॥
हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः । अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥२-८-१२॥
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः । रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह ॥२-८-१३॥
धमर्ज्ञो गुणवान् दान्तः कृतज्ञः सत्यवान् शुचिः । रामो राजसुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥२-८-१४॥
भ्रातॄन् भृत्यांश्च दीर्घायुः पितृवत् पालयिष्यति । संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥२-८-१५॥
भरतश्चापि रामस्य ध्रुवं वर्षशतात् परम् । पितृपैतामहं राज्यमवाप्स्यति नरर्षभः ॥२-८-१६॥
सा त्वमभ्युदये प्राप्ते दह्यमानेव मन्थरे । भविष्यति च कल्याणे किमिदं परितप्यसे ॥२-८-१७॥
यथा वै भरतो मान्यस्तथा भूयोऽपि राघवः । कौसल्यातोऽतिरिक्तं च मम शुश्रूषते बहु ॥२-८-१८॥
राज्यं यदि हि रामस्य भरतस्यापि तत् तदा । मन्यते हि यथाऽऽत्मानं यथा भ्रातॄंस्तु राघवः ॥२-८-१९॥
कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता । दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत् ॥२-८-२०॥
अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे । शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥२-८-२१॥
भविता राघवो राजा राघवस्य च यः सुतः । राजवंशात्तु भरतः कैकेयि परिहास्यते ॥२-८-२२॥
नहि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि । स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥२-८-२३॥
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः । स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ॥२-८-२४॥
असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति । अनाथवत् सुखेभ्यश्च राजवंशाच्च वत्सले ॥२-८-२५॥
साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुद्ध्यसे । सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमर्हसि ॥२-८-२६॥
ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् । देशान्तरं नाययिता लोकान्तरमथापि वा ॥२-८-२७॥
बाल एव तु मातुल्यं भरतो नायितस्त्वया । संनिकर्षाच्च सौहार्दं जायते स्थावरेष्विव ॥२-८-२८॥
भरतानुवशात् सोऽपि शत्रुघ्नस्तत्समं गतः । लक्ष्मणो हि यथा रामं तथायं भरतं गतः ॥२-८-२९॥
श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीवनैः । संनिकर्षादिषीकाभिर्मोचितः परमाद् भयात् ॥२-८-३०॥
गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः । अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥२-८-३१॥
तस्मान्न लक्ष्मणे रामः पापं किंचित् करिष्यति । रामस्तु भरते पापं कुर्यादेव न संशयः ॥२-८-३२॥
तस्माद् राजगृहादेव वनं गच्छतु राघवः । एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥२-८-३३॥
एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति । यदि चेद् भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति ॥२-८-३४॥
स ते सुखोचितो बालो रामस्य सहजो रिपुः । समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥२-८-३५॥
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् । प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥२-८-३६॥
दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया । राममाता सपत्नी ते कथं वैरं न यापयेत् ॥२-८-३७॥
यदा च रामः पृथिवीमवाप्स्यते प्रभूतरत्नाकरशैलसंयुताम् । तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि ॥२-८-३८॥
यदा हि रामः पृथिवीमवाप्स्यते ध्रुवं प्रणष्टो भरतो भविष्यति । अतो हि संचिन्तय राज्यमात्मजे परस्य चैवास्य विवासकारणम् ॥२-८-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे मन्थरोपजापः नाम अष्टमः सर्गः ॥२-८॥