भरतशत्रुघ्नविलापः

अयोध्याकाण्डः / भरतशत्रुघ्नविलापः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे भरतशत्रुघ्नविलापः नाम सप्तसप्ततितमः सर्गः ॥२-७७॥
ततः दश अहे अतिगते कृत शौचो नृप आत्मजः । द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥
ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् । वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥
बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा । दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् । ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥
विललाप महा बाहुर् भरतः शोक मूर्चितः । शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥
चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः । तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥
तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया । यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥
ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप । दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥
पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह । स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥
उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः । अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥
अन्त काले निपतितम् ययातिम् ऋषयो यथा । शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥
विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् । उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥
स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा । मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥
वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः । सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥
क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् । ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥
प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति । अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना । पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥
किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् । हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥
अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् । तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥
भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः । ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥
धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ । ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥
वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह । त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-२२॥
सावशेषास्थिनिचये किमिह त्वम् विलम्बसे । त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥
तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति । सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥
श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ । उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥
वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव । अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे भरतशत्रुघ्नविलापः नाम सप्तसप्ततितमः सर्गः ॥२-७७॥