तैलद्रोण्यधिशयनम्

अयोध्याकाण्डः / तैलद्रोण्यधिशयनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे तैलद्रोण्यधिशयनम् नाम षट्षष्ठितमः सर्गः ॥२-६६॥
तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् । हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥
कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता । उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥
सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् । त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥
विहाय माम् गतः रामः भर्ता च स्वर् गतः मम । विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥
भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः । इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥
न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् । कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥
अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् । सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥
स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः । रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥
विदेह राजस्य सुता तहा सीता तपस्विनी । दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥
नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् । निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥
वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् । सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥
साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता । इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥
ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् । व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥
तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् । राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥
न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः । सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥
तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् । हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥
बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः । रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥
हा महाराज रामेण सततम् प्रियवादिना । विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥
कैकेय्या दुष्टभावाया राघवेण वियोजिताः । कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥
स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् । वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥
त्वया तेन च वीरेण विना व्यसनमोहिताः । कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥
यया तु राजा रामश्च लक्ष्मणश्च महाबलः । सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥
ता बाष्पेण च सम्वीताः शोकेन विपुलेन च । व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥
निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता । पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥
बाष्प पर्याकुल जना हाहा भूत कुल अन्गना । शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥
गत प्रभा द्यौर् इव भास्करम् विना । व्यपेत नक्षत्र गणा इव शर्वरी । निवृत्तचारः सहसा गतो रविः । प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥
ऋते तु पुत्राद्दहनम् महीपते । र्नरोचयन्ते सुहृदः समागताः । इतीव तस्मिन् शयने न्यवेशय । न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥
गतप्रभा द्यौरिव भास्करम् विना । व्यपेतनक्षत्रगणेव शर्वरी । पुरी बभासे रहिता मह आत्मना । न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥
नराः च नार्यः च समेत्य सम्घशो । विगर्हमाणा भरतस्य मातरम् । तदा नगर्याम् नर देव सम्क्षये । बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे तैलद्रोण्यधिशयनम् नाम षट्षष्ठितमः सर्गः ॥२-६६॥