रामसंक्षोभः

अयोध्याकाण्डः / रामसंक्षोभः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे रामसंक्षोभः नाम त्रिपञ्चाशः सर्गः ॥२-५३॥
स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् । रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-१॥
अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः । या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-२॥
जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु । योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-३॥
रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे । उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-४॥
स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः । इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-५॥
ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण । कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-६॥
सा हि देवी महा राजम् कैकेयी राज्य कारणात् । अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-७॥
अनाथः चैव वृद्धः च मया चैव विनाकृतः । किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-८॥
इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् । कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-९॥
को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् । चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-१०॥
सुखी बत सभार्यः च भरतः केकयी सुतः । मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥२-५३-११॥
स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति । ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-१२॥
अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते । एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-१३॥
मन्ये दशरथ अन्ताय मम प्रव्राजनाय च । कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-१४॥
अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता । कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-१५॥
मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् । अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-१६॥
अहम् एको गमिष्यामि सीतया सह दण्डकान् । अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-१७॥
क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् । परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-१८॥
नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः । जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-१९॥
मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च । विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-२०॥
मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् । सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-२१॥
मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका । यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-२२॥
शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता । पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-२३॥
अल्प भाग्या हि मे माता कौसल्या रहिता मया । शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-२४॥
एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण । तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-२५॥
अधर्म भय भीतः च पर लोकस्य च अनघ । तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-२६॥
एतत् अन्यच् च करुणम् विलप्य विजने बहु । अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-२७॥
विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् । समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-२८॥
ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर । निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-२९॥
न एतत् औपयिकम् राम यद् इदम् परितप्यसे । विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-३०॥
न च सीता त्वया हीना न च अहम् अपि राघव । मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-३१॥
न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप । द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-३२॥
ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् । न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-३३॥
स लक्ष्मणस्य उत्तम पुष्कलम् वचो । निशम्य च एवम् वन वासम् आदरात् । समाः समस्ता विदधे परम् तपः । प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-३४॥
ततस्तु तस्मिन् विजने वने तदा । महाबलौ राघववम्शवर्धनौ । न तौ भयम् सम्भ्रममभ्युपेयतु । र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे रामसंक्षोभः नाम त्रिपञ्चाशः सर्गः ॥२-५३॥