व्रतचर्याविधानम्

अयोध्याकाण्डः / व्रतचर्याविधानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे व्रतचर्याविधानम् नाम पञ्चमः सर्गः ॥२-५॥
संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने । पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥२-५-१॥
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन । श्रेयसे राज्यलाभाय वध्वा सह यतव्रत ॥२-५-२॥
तथेति च स राजानमुक्त्वा वेदविदां वरः । स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥२-५-३॥
उपवासयितुं वीरं मन्त्रविन्मन्त्रकोविदम् । ब्राह्मं रथवरं युक्तमास्थाय सुधृतव्रतः ॥२-५-४॥
स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् । तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥२-५-५॥
तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमम् । मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥२-५-६॥
अभ्येत्य त्वरमाणोऽथ रथाभ्याशं मनीषिणः । ततोऽवतारयामास परिगृह्य रथात् स्वयम् ॥२-५-७॥
स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च । प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥२-५-८॥
प्रसन्नस्ते पिता राम यत्त्वं राज्यमवाप्स्यसि । उपवासं भवानद्य करोतु सह सीतया ॥२-५-९॥
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः । पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥२-५-१०॥
इत्युक्त्वा स तदा राममुपवासं यतव्रतः । मन्त्रवत् कारयामास वैदेह्या सहितं शुचिः ॥२-५-११॥
ततो यथावद् रामेण स राज्ञो गुरुरर्चितः । अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥२-५-१२॥
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः । सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥२-५-१३॥
हृष्टनारीनरयुतं रामवेश्म तदा बभौ । यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥२-५-१४॥
स राजभवनप्रख्यात् तस्माद् रामनिवेशनात् । निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥२-५-१५॥
वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः । बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः ॥२-५-१६॥
जनवृन्दोर्मिसंघर्षहर्षस्वनवृतस्तदा । बभूव राजमार्गस्य सागरस्येव निःस्वनः ॥२-५-१७॥
सिक्तसम्मृष्टरथ्या हि तथा च वनमालिनी । आसीदयोध्या तदहः समुच्छ्रितगृहध्वजा ॥२-५-१८॥
तदा ह्ययोध्यानिलयः सस्त्रीबालाकुलो जनः । रामाभिषेकमाकांक्षन्नाकांक्षन्नुदयं रवेः ॥२-५-१९॥
प्रजालंकारभूतं च जनस्यानन्दवर्धनम् । उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥२-५-२०॥
एवं तज्जनसम्बाधं राजमार्गं पुरोहितः । व्यूहन्निव जनौघं तं शनै राजकुलं ययौ ॥२-५-२१॥
सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य च । समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥२-५-२२॥
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः । पप्रच्छ स्वमतं तस्मै कृतमित्यभिवेदयत् ॥२-५-२३॥
तेन चैव तदा तुल्यं सहासीनाः सभासदः । आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥२-५-२४॥
गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् । विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥२-५-२५॥
तदग्र्यवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम् । व्यदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः ॥२-५-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे व्रतचर्याविधानम् नाम पञ्चमः सर्गः ॥२-५॥