जानपदाक्रोशः

अयोध्याकाण्डः / जानपदाक्रोशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे जानपदाक्रोशः नाम एकोनपञ्चाशः सर्गः ॥२-४९॥
रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् । जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥२-४९-१॥
तथैव गच्चतः तस्य व्यपायात् रजनी शिवा । उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत ॥२-४९-२॥
ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च । पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः ॥२-४९-३॥
शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् । राजानम् धिग् दशरथम् कामस्य वशम् आगतम् ॥२-४९-४॥
हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी । तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते ॥२-४९-५॥
या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् । वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् ॥२-४९-६॥
कथम् नाम महाभागा सीता जनकनन्दिनी । सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥२-४९-७॥
अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् । प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति ॥२-४९-८॥
एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् । शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः ॥२-४९-९॥
ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् । उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् ॥२-४९-१०॥
गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् । गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् ॥२-४९-११॥
गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः । मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥२-४९-१२॥
स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा । स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥२-४९-१३॥
सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः । हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः ॥२-४९-१४॥
कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने । मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥२-४९-१५॥
न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने । रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता ॥२-४९-१६॥
राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने । काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥२-४९-१७॥
स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरातम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् ॥२-४९-१८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे जानपदाक्रोशः नाम एकोनपञ्चाशः सर्गः ॥२-४९॥