वनगमनापृच्छा

अयोध्याकाण्डः / वनगमनापृच्छा

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे वनगमनापृच्छा नाम एकोनचत्वारिंशः सर्गः ॥२-३९॥
रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् । समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥२-३९-१॥
नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् । न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥२-३९-२॥
स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः । विललाप महाबाहू राममेवानुचिन्तयन् ॥२-३९-३॥
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः । प्राणिनो हिंसिता वापि तन्मामिदमुपस्थितम् ॥२-३९-४॥
न त्वेवानागते काले देहाच्च्यवति जीवितम् । कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥२-३९-५॥
योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् । विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥२-३९-६॥
एकस्याः खलु कैकेय्याः कृतेऽयं खिद्यते जनः । स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ॥२-३९-७॥
एवमुक्त्वा तु वचनं बाष्पेण विहतेन्द्रियः । रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः ॥२-३९-८॥
संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः । नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥२-३९-९॥
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः । प्रापयैनं महाभागमितो जनपदात् परम् ॥२-३९-१०॥
एवं मन्ये गुणवतां गुणानां फलमुच्यते । पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥२-३९-११॥
राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः । योजयित्वा ययौ तत्र रथमश्वैरलंकृतम् ॥२-३९-१२॥
तं रथं राजपुत्राय सूतः कनकभूषितम् । आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥२-३९-१३॥
राजा सत्वरमाहूय व्यापृतं वित्तसंचये । उवाच देशकालज्ञो निश्चितं सर्वतः शुचिः ॥२-३९-१४॥
वासांसि च वरार्हाणि भूषणानि महान्ति च । वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय ॥२-३९-१५॥
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः । प्रायच्छत् सर्वमाहृत्य सीतायै क्षिप्रमेव तत् ॥२-३९-१६॥
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् । भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥२-३९-१७॥
व्यराजयत वैदेही वेश्म तत् सुविभूषिता । उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः ॥२-३९-१८॥
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् । अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ॥२-३९-१९॥
असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः । भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥२-३९-२०॥
एष स्वभावो नारीणामनुभूय पुरा सुखम् । अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥२-३९-२१॥
असत्यशीला विकृता दुर्गा अहृदयाः सदा । असत्यः पापसंकल्पाः क्षणमात्रविरागिणः ॥२-३९-२२॥
न कुलं न कृतं विद्या न दत्तं नापि संग्रहः । स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ॥२-३९-२३॥
साध्वीनां तु स्थितानां तु शीले सत्ये श्रुते स्थिते । स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥२-३९-२४॥
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो वनम् । तव देवसमस्त्वेष निर्धनः सधनोऽपि वा ॥२-३९-२५॥
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् । कृत्वाञ्जलिमुवाचेदं श्वश्रूमभिमुखे स्थिता ॥२-३९-२६॥
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् । अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे ॥२-३९-२७॥
न मामसज्जनेनार्या समानयितुमर्हति । धर्माद् विचलितुं नाहमलं चन्द्रादिव प्रभा ॥२-३९-२८॥
नातन्त्री वाद्यते वीणा नाचक्रो विद्यते रथः । नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥२-३९-२९॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः । अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥२-३९-३०॥
साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा । आर्ये किमवमन्येयं स्त्रिया भर्ता हि दैवतम् ॥२-३९-३१॥
सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् । शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥२-३९-३२॥
तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्येऽतिसत्कृताम् । रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥२-३९-३३॥
अम्ब मा दुःखिता भूत्वा पश्येस्त्वं पितरं मम । क्षयोऽपि वनवासस्य क्षिप्रमेव भविष्यति ॥२-३९-३४॥
सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च । समग्रमिह सम्प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥२-३९-३५॥
एतावदभिनीतार्थमुक्त्वा स जननीं वचः । त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः ॥२-३९-३६॥
ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः । धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥२-३९-३७॥
संवासात् परुषं किंचिदज्ञानादपि यत् कृतम् । तन्मे समुपजानीत सर्वाश्चामन्त्रयामि वः ॥२-३९-३८॥
वचनं राघवस्यैतद् धर्मयुक्तं समाहितम् । शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः ॥२-३९-३९॥
जज्ञोऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः । मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥२-३९-४०॥
मुरजपणवमेघघोषवद् दशरथवेश्म बभूव यत् पुरा । विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदुःखितम् ॥२-३९-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे वनगमनापृच्छा नाम एकोनचत्वारिंशः सर्गः ॥२-३९॥