पुत्रानुशासनम्

अयोध्याकाण्डः / पुत्रानुशासनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे पुत्रानुशासनम् नाम तृतीयः सर्गः ॥२-३॥
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः । प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः ॥२-३-१॥
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम । यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥२-३-२॥
इति प्रत्यर्चितान् राजा ब्राह्मणानिदमब्रवीत् । वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥२-३-३॥
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः । यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥२-३-४॥
राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् । शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥२-३-५॥
वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् । अभिषेकाय रामस्य यत् कर्म सपरिच्छदम् ॥२-३-६॥
तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि । तच्छ्रुत्वा भूमिपालस्य वसिष्ठो मुनिसत्तमः ॥२-३-७॥
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् । सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥२-३-८॥
शुक्लमाल्यानि लाजांश्च पृथक् च मधुसर्पिषी । अहतानि च वासांसि रथं सर्वायुधान्यपि ॥२-३-९॥
चतुरङ्गबलं चैव गजं च शुभलक्षणम् । चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम् ॥२-३-१०॥
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् । हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥२-३-११॥
यच्चान्यत् किंचिदेष्टव्यं तत् सर्वमुपकल्प्यताम् । उपस्थापयत प्रातरग्न्यगारे महीपतेः ॥२-३-१२॥
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च । चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥२-३-१३॥
प्रशस्तमन्नं गुणवद् दधिक्षीरोपसेचनम् । द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत् ॥२-३-१४॥
सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् । घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥२-३-१५॥
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् । ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥२-३-१६॥
आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् । सर्वे च तालापचरा गणिकाश्च स्वलंकृताः ॥२-३-१७॥
कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः । देवायतनचैत्येषु सान्नभक्ष्याः सदक्षिणाः ॥२-३-१८॥
उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक् । दीर्घासिबद्धगोधाश्च संनद्धा मृष्टवाससः ॥२-३-१९॥
महाराजाङ्गनं शूराः प्रविशन्तु महोदयम् । एवं व्यादिश्य विप्रौ तु क्रियास्तत्र विनिष्ठितौ ॥२-३-२०॥
चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च । कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ॥२-३-२१॥
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ । ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ॥२-३-२२॥
रामः कृतात्मा भवता शीघ्रमानीयतामिति । स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ॥२-३-२३॥
रामं तत्रानयांचक्रे रथेन रथिनां वरम् । अथ तत्र सहासीनास्तदा दशरथं नृपम् ॥२-३-२४॥
प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः । म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः ॥२-३-२५॥
उपासांचक्रिरे सर्वे तं देवा वासवं यथा । तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ॥२-३-२६॥
प्रासादस्थो दशरथो ददर्शायान्तमात्मजम् । गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ॥२-३-२७॥
दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम् । चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥२-३-२८॥
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् । घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ॥२-३-२९॥
न ततर्प समायान्तं पश्यमानो नराधिपः । अवतार्य सुमन्त्रस्तु राघवं स्यन्दनोत्तमात् ॥२-३-३०॥
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् । स तं कैलासशृङ्गाभं प्रासादं रघुनन्दनः ॥२-३-३१॥
आरुरोह नृपं द्रष्टुं सहसा तेन राघवः । स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके ॥२-३-३२॥
नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः । तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥२-३-३३॥
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् । तस्मै चाभ्युद्यतं सम्यङ्मणिकाञ्चनभूषितम् ॥२-३-३४॥
दिदेश राजा रुचिरं रामाय परमासनम् । तथाऽऽसनवरं प्राप्य व्यदीपयत राघवः ॥२-३-३५॥
स्वयैव प्रभया मेरुमुदये विमलो रविः । तेन विभ्राजिता तत्र सा सभापि व्यरोचत ॥२-३-३६॥
विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना । तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् ॥२-३-३७॥
अलंकृतमिवात्मानमादर्शतलसंस्थितम् । स तं सुस्थितमाभाष्य पुत्रं पुत्रवतां वरः ॥२-३-३८॥
उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः । ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ॥२-३-३९॥
उत्पन्नस्त्वं गुणज्येष्ठो मम रामात्मजः प्रियः । त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ॥२-३-४०॥
तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि । कामतस्त्वं प्रकृत्यैव निर्णीतो गुणवानिति ॥२-३-४१॥
गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम् । भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥२-३-४२॥
कामक्रोधसमुत्थानि त्यजस्व व्यसनानि च । परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥२-३-४३॥
अमात्यप्रभृतीः सर्वाः प्रजाश्चैवानुरञ्जय । कोष्ठागारायुधागारैः कृत्वा संनिचयान् बहून् ॥२-३-४४॥
इष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् । तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः ॥२-३-४५॥
तस्मात् पुत्र त्वमात्मानं नियम्यैवं समाचर । तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ॥२-३-४६॥
त्वरिताः शीघ्रमागत्य कौसल्यायै न्यवेदयन् । सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥२-३-४७॥
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा । अथाभिवाद्य राजानं रथमारुह्य राघवः । ययौ स्वं द्युतिमद् वेश्म जनौघैः प्रतिपूजितः ॥२-३-४८॥
ते चापि पौरा नृपतेर्वचस्तच्छ्रुत्वा तदा लाभमिवेष्टमाशु । नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरभिप्रहृष्टाः ॥२-३-४९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पुत्रानुशासनम् नाम तृतीयः सर्गः ॥२-३॥