वनानुगमनयाच्ञानिर्बन्धः
अयोध्याकाण्डः / वनानुगमनयाच्ञानिर्बन्धः
Script
Translation
Previous
वनदुःखप्रतिबोधनम्
Next
वनगमनाभ्युपपत्तिः
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे वनानुगमनयाच्ञानिर्बन्धः नाम एकोनत्रिंशः सर्गः ॥२-२९॥
एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता ।
प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ॥२-२९-१॥
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति ।
गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृता ॥२-२९-२॥
मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा ।
चमराः सृमराश्चैव ये चान्ये वनचारिणः ॥२-२९-३॥
अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव ।
रूपं दृष्ट्वापसर्पेयुस्तव सर्वे हि बिभ्यति ॥२-२९-४॥
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया ।
त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥२-२९-५॥
नहि मां त्वत्समीपस्थामपि शक्रोऽपि राघव ।
सुराणामीश्वरः शक्तः प्रधर्षयितुमोजसा ॥२-२९-६॥
पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् ।
काममेवंविधं राम त्वया मम निदर्शितम् ॥२-२९-७॥
अथापि च महाप्राज्ञ ब्राह्मणानां मया श्रुतम् ।
पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥२-२९-८॥
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे ।
वनवासकृतोत्साहा नित्यमेव महाबल ॥२-२९-९॥
आदेशो वनवासस्य प्राप्तव्यः स मया किल ।
सा त्वया सह भर्त्राहं यास्यामि प्रिय नान्यथा ॥२-२९-१०॥
कृतादेशा भविष्यामि गमिष्यामि त्वया सह ।
कालश्चायं समुत्पन्नः सत्यवान् भवतु द्विजः ॥२-२९-११॥
वनवासे हि जानामि दुःखानि बहुधा किल ।
प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ॥२-२९-१२॥
कन्यया च पितुर्गेहे वनवासः श्रुतो मया ।
भिक्षिण्याः शमवृत्ताया मम मातुरिहाग्रतः ॥२-२९-१३॥
प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो ।
गमनं वनवासस्य कांक्षितं हि सह त्वया ॥२-२९-१४॥
कृतक्षणाहं भद्रं ते गमनं प्रति राघव ।
वनवासस्य शूरस्य मम चर्या हि रोचते ॥२-२९-१५॥
शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा ।
भर्तारमनुगच्छन्ती भर्ता हि परदैवतम् ॥२-२९-१६॥
प्रेत्यभावे हि कल्याणः संगमो मे सदा त्वया ।
श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् ॥२-२९-१७॥
इहलोके च पितृभिर्या स्त्री यस्य महाबल ।
अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥२-२९-१८॥
एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम् ।
नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना ॥२-२९-१९॥
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः ।
नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् ॥२-२९-२०॥
यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि ।
विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात् ॥२-२९-२१॥
एवं बहुविधं तं सा याचते गमनं प्रति ।
नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥२-२९-२२॥
एवमुक्ता तु सा चिन्तां मैथिली समुपागता ।
स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः ॥२-२९-२३॥
चिन्तयन्तीं तदा तां तु निवर्तयितुमात्मवान् ।
क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत् ॥२-२९-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे वनानुगमनयाच्ञानिर्बन्धः नाम एकोनत्रिंशः सर्गः ॥२-२९॥
Previous
वनदुःखप्रतिबोधनम्
Next
वनगमनाभ्युपपत्तिः