दैवप्राबल्यम्

अयोध्याकाण्डः / दैवप्राबल्यम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे दैवप्राबल्यम् नाम द्वाविंशः सर्गः ॥२-२२॥
अथ तं व्यथया दीनं सविशेषममर्षितम् । सरोषमिव नागेन्द्रं रोषविस्फारितेक्षणम् ॥२-२२-१॥
आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् । उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् ॥२-२२-२॥
निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् । अवमानं निरस्यैनं गृहीत्वा हर्षमुत्तमम् ॥२-२२-३॥
उपक्लृप्तं यदैतन्मे अभिषेकार्थमुत्तमम् । सर्वं निवर्तय क्षिप्रं कुरु कार्यं निरव्ययम् ॥२-२२-४॥
सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः । अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः ॥२-२२-५॥
यस्या मदभिषेकार्थे मानसं परितप्यते । माता नः सा यथा न स्यात् सविशङ्का तथा कुरु ॥२-२२-६॥
तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे । मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् ॥२-२२-७॥
न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन । मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम् ॥२-२२-८॥
सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः । परलोकभयाद् भीतो निर्भयोऽस्तु पिता मम ॥२-२२-९॥
तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते । सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥२-२२-१०॥
अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण । अन्वगेवाहमिच्छामि वनं गन्तुमितः पुरः ॥२-२२-११॥
मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा । सुतं भरतमव्यग्रमभिषेचयतां ततः ॥२-२२-१२॥
मयि चीराजिनधरे जटामण्डलधारिणि । गतेऽरण्यं च कैकेय्या भविष्यति मनः सुखम् ॥२-२२-१३॥
बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम् । तं नु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम् ॥२-२२-१४॥
कृतान्त एव सौमित्रे द्रष्टव्यो मत्प्रवासने । राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥२-२२-१५॥
कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम वेदने । यदि तस्या न भावोऽयं कृतान्तविहितो भवेत् ॥२-२२-१६॥
जानासि हि यथा सौम्य न मातृषु ममान्तरम् । भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा ॥२-२२-१७॥
सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः । उग्रैर्वाक्यैरहं तस्या नान्यद् दैवात् समर्थये ॥२-२२-१८॥
कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा । ब्रूयात् सा प्राकृतेव स्त्री मत्पीड्यं भर्तृसंनिधौ ॥२-२२-१९॥
यदचिन्त्यं तु तद् दैवं भूतेष्वपि न हन्यते । व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥२-२२-२०॥
कश्च दैवेन सौमित्रे योद्धुमुत्सहते पुमान् । यस्य नु ग्रहणं किंचित् कर्मणोऽन्यन्न दृश्यते ॥२-२२-२१॥
सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ । यस्य किंचित् तथाभूतं ननु दैवस्य कर्म तत् ॥२-२२-२२॥
ऋषयोऽप्युग्रतपसो दैवेनाभिप्रचोदिताः । उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥२-२२-२३॥
असंकल्पितमेवेह यदकस्मात् प्रवर्तते । निवर्त्यारब्धमारम्भैर्ननु दैवस्य कर्म तत् ॥२-२२-२४॥
एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना । व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥२-२२-२५॥
तस्मादपरितापः संस्त्वमप्यनुविधाय माम् । प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ॥२-२२-२६॥
एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः । मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥२-२२-२७॥
अथवा किं मयैतेन राज्यद्रव्यमयेन तु । उद्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति ॥२-२२-२८॥
मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये । राज्यं वा वनवासो वा वनवासो महोदयः ॥२-२२-२९॥
न लक्ष्मणास्मिन् मम राज्यविघ्ने माता यवीयस्यभिशङ्कितव्या । दैवाभिपन्ना न पिता कथंचिज्जानासि दैवं हि तथाप्रभावम् ॥२-२२-३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दैवप्राबल्यम् नाम द्वाविंशः सर्गः ॥२-२२॥