सुमन्त्रप्रेषणम्

अयोध्याकाण्डः / सुमन्त्रप्रेषणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे सुमन्त्रप्रेषणम् नाम पञ्चदशः सर्गः ॥२-१५॥
ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः । उपतस्थुरुपस्थानं सह राजपुरोहिताः ॥२-१५-१॥
अमात्या बलमुख्याश्च मुख्या ये निगमस्य च । राघवस्याभिषेकार्थे प्रीयमाणाः सुसंगताः ॥२-१५-२॥
उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि । लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते ॥२-१५-३॥
अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम् । काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम् ॥२-१५-४॥
रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा । गङ्गायमुनयोः पुण्यात् संगमादाहृतं जलम् ॥२-१५-५॥
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च । प्राग्वहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाश्च क्षीरिणः ॥२-१५-६॥
ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः । क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥२-१५-७॥
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः । सजलाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥२-१५-८॥
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा । चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् ॥२-१५-९॥
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् । चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम् ॥२-१५-१०॥
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्सरम् । पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च संस्थितः ॥२-१५-११॥
वादित्राणि च सर्वाणि वन्दिनश्च तथापरे । इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम् ॥२-१५-१२॥
तथाजातीयमादाय राजपुत्राभिषेचनम् । ते राजवचनात् तत्र समवेता महीपतिम् ॥२-१५-१३॥
अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत् । न पश्यामश्च राजानमुदितश्च दिवाकरः ॥२-१५-१४॥
यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः । इति तेषु ब्रुवाणेषु सर्वांस्तांश्च महीपतीन् ॥२-१५-१५॥
अब्रवीत् तानिदं वाक्यं सुमन्त्रो राजसत्कृतः । रामं राज्ञो नियोगेन त्वरया प्रस्थितो ह्यहम् ॥२-१५-१६॥
पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः । अयं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥२-१५-१७॥
राज्ञः सम्प्रतिबुद्धस्य चानागमनकारणम् । इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ॥२-१५-१८॥
सदा सक्तं च तद् वेश्म सुमन्त्रः प्रविवेश ह । तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः ॥२-१५-१९॥
शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत । सोऽत्यासाद्य तु तद् वेश्म तिरस्करणिमन्तरा ॥२-१५-२०॥
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् । सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥२-१५-२१॥
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते । गता भगवती रात्रिरहः शिवमुपस्थितम् ॥२-१५-२२॥
बुद्ध्यस्व राजशार्दूल कुरु कार्यमनन्तरम् । ब्राह्मणा बलमुख्याश्च नैगमाश्चागतास्त्विह ॥२-१५-२३॥
दर्शनं तेऽभिकांक्षन्ते प्रतिबुद्ध्यस्व राघव । स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् ॥२-१५-२४॥
प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत् । राममानय सूतेति यदस्यभिहितो मया ॥२-१५-२५॥
किमिदं कारणं येन ममाज्ञा प्रतिवाह्यते । न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥२-१५-२६॥
इति राजा दशरथः सूतं तत्रान्वशात् पुनः । स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥२-१५-२७॥
निर्जगाम नृपावासान्मन्यमानः प्रियं महत् । प्रपन्नो राजमार्गं च पताकाध्वजशोभितम् ॥२-१५-२८॥
हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् । स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥२-१५-२९॥
अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत् । ततो ददर्श रुचिरं कैलाससदृशप्रभम् ॥२-१५-३०॥
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् । महाकपाटपिहितं वितर्दिशतशोभितम् ॥२-१५-३१॥
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् । शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहासमम् ॥२-१५-३२॥
मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् । मुक्तामणिभिराकीर्णं चन्दनागुरुभूषितम् ॥२-१५-३३॥
गन्धान् मनोज्ञान् विसृजद् दार्दुरं शिखरं यथा । सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ॥२-१५-३४॥
सुकृतेहामृगाकीर्णमुत्कीर्णं भक्तिभिस्तथा । मनश्चक्षुश्च भूतानामाददत् तिग्मतेजसा ॥२-१५-३५॥
चन्द्रभास्करसंकाशं कुबेरभवनोपमम् । महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥२-१५-३६॥
मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह । उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः ॥२-१५-३७॥
उपादाय समाक्रान्तैस्तदा जानपदैर्जनैः । रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम् ॥२-१५-३८॥
महामेघसमप्रख्यमुदग्रं सुविराजितम् । नानारत्नसमाकीर्णं कुब्जकैरपि चावृतम् ॥२-१५-३९॥
स वाजियुक्तेन रथेन सारथिः समाकुलं राजकुलं विराजयन् । वरूथिना राजगृहाभिपातिना पुरस्य सर्वस्य मनांसि हर्षयन् ॥२-१५-४०॥
ततः समासाद्य महाधनं महत् प्रहृष्टरोमा स बभूव सारथिः । मृगैर्मयूरैश्च समाकुलोल्बणं गृहं वरार्हस्य शचीपतेरिव ॥२-१५-४१॥
स तत्र कैलासनिभाः स्वलंकृताः प्रविश्य कक्ष्यास्त्रिदशालयोपमाः । प्रियान् वरान् राममते स्थितान् बहून् व्यपोह्य शुद्धान्तमुपस्थितौ रथी ॥२-१५-४२॥
स तत्र शुश्राव च हर्षयुक्ता रामाभिषेकार्थकृतां जनानाम् । नरेन्द्रसूनोरभिमङ्गलार्थाः सर्वस्य लोकस्य गिरः प्रहृष्टाः ॥२-१५-४३॥
महेन्द्रसद्मप्रतिमं च वेश्म रामस्य रम्यं मृगपक्षिजुष्टम् । ददर्श मेरोरिव शृङ्गमुच्चं विभ्राजमानं प्रभया सुमन्त्रः ॥२-१५-४४॥
उपस्थितैरञ्जलिकारिभिश्च सोपायनैर्जानपदैर्जनैश्च । कोट्या परार्धैश्च विमुक्तयानैः समाकुलं द्वारपदं ददर्श ॥२-१५-४५॥
ततो महामेघमहीधराभं प्रभिन्नमत्यङ्कुशमत्यसह्यम् । रामोपवाह्यं रुचिरं ददर्श शत्रुञ्जयं नागमुदग्रकायम् ॥२-१५-४६॥
स्वलंकृतान् साश्वरथान् सकुञ्जरानमात्यमुख्यांश्च ददर्श वल्लभान् । व्यपोह्य सूतः सहितान् समन्ततः समृद्धमन्तःपुरमाविवेश ह ॥२-१५-४७॥
ततोऽद्रिकूटाचलमेघसंनिभं महाविमानोपमवेश्मसंयुतम् । अवार्यमाणः प्रविवेश सारथिः प्रभूतरत्नं मकरो यथार्णवम् ॥२-१५-४८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सुमन्त्रप्रेषणम् नाम पञ्चदशः सर्गः ॥२-१५॥