वरद्वयनिर्बन्धः
अयोध्याकाण्डः / वरद्वयनिर्बन्धः
Script
Translation
Previous
कैकेय्यनुनयः
Next
कैकेयीनिवर्तनप्रयासः
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे वरद्वयनिर्बन्धः नाम एकादशः सर्गः ॥२-११॥
तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।
उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥२-११-१॥
नास्मि विप्रकृता देव केनचिन्नावमानिता ।
अभिप्रायस्तु मे कश्चित् तमिच्छामि त्वया कृतम् ॥२-११-२॥
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि ।
अथ ते व्याहरिष्यामि यथाभिप्रार्थितं मया ॥२-११-३॥
तामुवाच महाराजः कैकेयीमीषदुत्स्मयः ।
कामी हस्तेन संगृह्य मूर्धजेषु भुवि स्थिताम् ॥२-११-४॥
अवलिप्ते न जानासि त्वत्तः प्रियतरो मम ।
मनुजो मनुजव्याघ्राद् रामादन्यो न विद्यते ॥२-११-५॥
तेनाजय्येन मुख्येन राघवेण महात्मना ।
शपे ते जीवनार्हेण ब्रूहि यन्मनसेप्सितम् ॥२-११-६॥
यं मुहूर्तमपश्यंस्तु न जीवे तमहं ध्रुवम् ।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-७॥
आत्मना चात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् ।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-८॥
भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे ।
एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे ॥२-११-९॥
बलमात्मनि पश्यन्ती न विशङ्कितुमर्हसि ।
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥२-११-१०॥
सा तदर्थमना देवी तमभिप्रायमागतम् ।
निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ॥२-११-११॥
तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः ।
व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥२-११-१२॥
यथा क्रमेण शपसे वरं मम ददासि च ।
तच्छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः ॥२-११-१३॥
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः ।
जगच्च पृथिवी चेयं सगन्धर्वाः सराक्षसाः ॥२-११-१४॥
निशाचराणि भूतानि गृहेषु गृहदेवताः ।
यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥२-११-१५॥
सत्यसंधो महातेजा धर्मज्ञः सत्यवाक्शुचिः ।
वरं मम ददात्येष सर्वे शृण्वन्तु दैवताः ॥२-११-१६॥
इति देवी महेष्वासं परिगृह्याभिशस्य च ।
ततः परमुवाचेदं वरदं काममोहितम् ॥२-११-१७॥
स्मर राजन् पुरा वृत्तं तस्मिन् देवासुरे रणे ।
तत्र त्वां च्यावयच्छत्रुस्तव जीवितमन्तरा ॥२-११-१८॥
तत्र चापि मया देव यत् त्वं समभिरक्षितः ।
जाग्रत्या यतमानायास्ततो मे प्रददौ वरौ ॥२-११-१९॥
तौ दत्तौ च वरौ देव निक्षेपौ मृगयाम्यहम् ।
तवैव पृथिवीपाल सकाशे रघुनन्दन ॥२-११-२०॥
तत् प्रतिश्रुत्य धर्मेण न चेद् दास्यसि मे वरम् ।
अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥२-११-२१॥
वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः ।
प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः ॥२-११-२२॥
ततः परमुवाचेदं वरदं काममोहितम् ।
वरौ देयौ त्वया देव तदा दत्तौ महीपते ॥२-११-२३॥
तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः ।
अभिषेकसमारम्भो राघवस्योपकल्पितः ॥२-११-२४॥
अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम् ।
यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥२-११-२५॥
तदा देवासुरे युद्धे तस्य कालोऽयमागतः ।
नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥२-११-२६॥
चीराजिनधरो धीरो रामो भवतु तापसः ।
भरतो भजतामद्य यौवराज्यमकण्टकम् ॥२-११-२७॥
एष मे परमः कामो दत्तमेव वरं वृणे ।
अद्य चैव हि पश्येयं प्रयान्तं राघवं वने ॥२-११-२८॥
स राजराजो भव सत्यसंगरः कुलं च शीलं च हि जन्म रक्ष च ।
परत्र वासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम् ॥२-११-२९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे वरद्वयनिर्बन्धः नाम एकादशः सर्गः ॥२-११॥
Previous
कैकेय्यनुनयः
Next
कैकेयीनिवर्तनप्रयासः