अयोध्याप्रवेशः

बालकाण्डः / अयोध्याप्रवेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे अयोध्याप्रवेशः नाम सप्तसप्ततितमः सर्गः ॥१-७७॥
गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः । वरुणायाप्रमेयाय ददौ हस्ते महायशाः ॥१-७७-१॥
अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन् । पितरं विकलं दृष्ट्वा प्रोवाच रघुनन्दनः ॥१-७७-२॥
जामदग्न्यो गतो रामः प्रयातु चतुरंगिणी । अयोध्याभिमुखी सेना त्वया नाथेन पालिता ॥१-७७-३॥
रामस्य वचनं श्रुत्वा राजा दशरथः सुतम् । बाहुभ्यां सम्परिष्वज्य मूर्ध्न्युपाघ्राय राघवम् ॥१-७७-४॥
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः । पुनर्जातं तदा मेने पुत्रमात्मानमेव च ॥१-७७-५॥
चोदयामास तां सेनां जगामाशु ततः पुरीम् । पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् ॥१-७७-६॥
सिक्तराजपथारम्यां प्रकीर्णकुसुमोत्कराम् । राजप्रवेशसुमुखैः पौरैर्मङ्गलपाणिभिः ॥१-७७-७॥
सम्पूर्णां प्राविशद् राजा जनौघैः समलंकृताम् । पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ॥१-७७-८॥
पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः । प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम् ॥१-७७-९॥
ननन्द स्वजनै राजा गृहे कामैः सुपूजितः । कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥१-७७-१०॥
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः । ततः सीतां महाभागामूर्मिलां च यशस्विनीम् ॥१-७७-११॥
कुशध्वजसुते चोभे जगृहुर्नृपयोषितः । मंगलालापनैर्होमैः शोभिताः क्षौमवाससः ॥१-७७-१२॥
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् । अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा ॥१-७७-१३॥
रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः । कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः ॥१-७७-१४॥
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः । कस्यचित्त्वथ कालस्य राजा दशरथः सुतम् ॥१-७७-१५॥
भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः । अयं केकयराजस्य पुत्रो वसति पुत्रक ॥१-७७-१६॥
त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव । श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः ॥१-७७-१७॥
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा । आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम् ॥१-७७-१८॥
मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ । युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः ॥१-७७-१९॥
स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह । गते च भरते रामो लक्ष्मणश्च महाबलः ॥१-७७-२०॥
पितरं देवसंकाशं पूजयामासतुस्तदा । पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ॥१-७७-२१॥
चकार रामः सर्वाणि प्रियाणि च हितानि च । मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः ॥१-७७-२२॥
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत । एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा ॥१-७७-२३॥
रामस्य शीलवृत्तेन सर्वे विषयवासिनः । तेषामतियशा लोके रामः सत्यपराक्रमः ॥१-७७-२४॥
स्वयंभूरिव भूतानां बभूव गुणवत्तरः । रामश्च सीतया सार्धं विजहार बहूनृतून् ॥१-७७-२५॥
मनस्वी तद्गतमनास्तस्या हृदि समर्पितः । प्रिया तु सीता रामस्य दाराः पितृकृता इति ॥१-७७-२६॥
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते । तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ॥१-७७-२७॥
अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा । तस्य भूयो विशेषेण मैथिली जनकात्मजा । देवताभिः समा रूपे सीता श्रीरिव रूपिणी ॥१-७७-२८॥
तया स राजर्षिसुतोऽभिकामया समेयिवानुत्तमराजकन्यया । अतीव रामः शुशुभे मुदान्वितो विभुः श्रिया विष्णुरिवामरेश्वरः ॥१-७७-२९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अयोध्याप्रवेशः नाम सप्तसप्ततितमः सर्गः ॥१-७७॥