दशरथजनकसमागमः

बालकाण्डः / दशरथजनकसमागमः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे दशरथजनकसमागमः नाम एकोनसप्ततितमः सर्गः ॥१-६९॥
ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः । राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ॥१-६९-१॥
अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम् । व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः ॥१-६९-२॥
चतुरंगबलं चापि शीघ्रं निर्यातु सर्वशः । ममाज्ञासमकालं च यानं युग्यमनुत्तमम् ॥१-६९-३॥
वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः । मार्कण्डेयस्तु दीर्घायुर्ऋषिः कात्यायनस्तथा ॥१-६९-४॥
एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे । यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम् ॥१-६९-५॥
वचनाच्च नरेन्द्रस्य सेना च चतुरंगिणी । राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वयात् ॥१-६९-६॥
गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान् । राजा च जनकः श्रीमान् श्रुत्वा पूजामकल्पयत् ॥१-६९-७॥
ततो राजानमासाद्य वृद्धं दशरथं नृपम् । मुदितो जनको राजा प्रहर्षं परमं ययौ ॥१-६९-८॥
उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम् । स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥१-६९-९॥
पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम् । दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः ॥१-६९-१०॥
सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः । दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ॥१-६९-११॥
राघवैः सह सम्बन्धाद् वीर्यश्रेष्ठैर्महाबलैः । श्वः प्रभाते नरेन्द्र त्वं संवर्तयितुमर्हसि ॥१-६९-१२॥
यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः । तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः ॥१-६९-१३॥
वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् । प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा ॥१-६९-१४॥
यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम् । तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः ॥१-६९-१५॥
श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः । ततः सर्वे मुनिगणाः परस्परसमागमे ॥१-६९-१६॥
हर्षेण महता युक्तास्तां रात्रिमवसन् सुखम् । अथ रामो महातेजा लक्ष्मणेन समं ययौ ॥१-६९-१७॥
विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन् । राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः ॥१-६९-१८॥
उवास परमप्रीतो जनकेनाभिपूजितः । जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित् । यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह ॥१-६९-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशरथजनकसमागमः नाम एकोनसप्ततितमः सर्गः ॥१-६९॥