धनुःप्रसङ्गः

बालकाण्डः / धनुःप्रसङ्गः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे धनुःप्रसङ्गः नाम षट्षष्ठितमः सर्गः ॥१-६६॥
ततः प्रभाते विमले कृतकर्मा नराधिपः । विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥१-६६-१॥
तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा । राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥१-६६-२॥
भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ । भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम् ॥१-६६-३॥
एवमुक्तः स धर्मात्मा जनकेन महात्मना । प्रत्युवाच मुनिश्रेष्ठो वाक्यं वाक्यविशारदः ॥१-६६-४॥
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ । द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति ॥१-६६-५॥
एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ । दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥१-६६-६॥
एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् । श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥१-६६-७॥
देवरात इति ख्यातो निमेर्ज्येष्ठो महीपतिः । न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मनः ॥१-६६-८॥
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् । विध्वंस्य त्रिदशान् रोषात् सलीलमिदमब्रवीत् ॥१-६६-९॥
यस्माद् भागार्थिनो भागं नाकल्पयत मे सुराः । वरांगानि महार्हाणि धनुषा शातयामि वः ॥१-६६-१०॥
ततो विमनसः सर्वे देवा वै मुनिपुंगव । प्रसादयन्त देवेशं तेषां प्रीतोऽभवद् भवः ॥१-६६-११॥
प्रीतियुक्तस्तु सर्वेषां ददौ तेषां महात्मनाम् । तदेतद् देवदेवस्य धनूरत्नं महात्मनः ॥१-६६-१२॥
न्यासभूतं तदा न्यस्तमस्माकं पूर्वजे विभौ । अथ मे कृषतः क्षेत्रं लांगलादुत्थिता ततः ॥१-६६-१३॥
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता । भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा ॥१-६६-१४॥
वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा । भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ॥१-६६-१५॥
वरयामासुरागत्य राजानो मुनिपुंगव । तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ॥१-६६-१६॥
वीर्यशुल्केति भगवन् न ददामि सुतामहम् । ततः सर्वे नृपतयः समेत्य मुनिपुंगव ॥१-६६-१७॥
मिथिलामप्युपागम्य वीर्यं जिज्ञासवस्तदा । तेषां जिज्ञासमानानां शैवं धनुरुपाहृतम् ॥१-६६-१८॥
न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा । तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने ॥१-६६-१९॥
प्रत्याख्याता नृपतयस्तन्निबोध तपोधन । ततः परमकोपेन राजानो मुनिपुंगव ॥१-६६-२०॥
अरुन्धन् मिथिलां सर्वे वीर्यसंदेहमागताः । आत्मानमवधूतं मे विज्ञाय नृपपुंगवाः ॥१-६६-२१॥
रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम् । ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ॥१-६६-२२॥
साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः । ततो देवगणान् सर्वांस्तपसाहं प्रसादयम् ॥१-६६-२३॥
ददुश्च परमप्रीताश्चतुरंगबलं सुराः । ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ॥१-६६-२४॥
अवीर्या वीर्यसंदिग्धाः सामात्याः पापकारिणः । तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ॥१-६६-२५॥
रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत । यद्यस्य धनुषो रामः कुर्यादारोपणं मुने । सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥१-६६-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे धनुःप्रसङ्गः नाम षट्षष्ठितमः सर्गः ॥१-६६॥