मेनकानिर्वासः
बालकाण्डः / मेनकानिर्वासः
Script
Translation
Previous
अम्बरीशयज्ञः
Next
रम्भाशापः
अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे मेनकानिर्वासः नाम त्रिषष्ठितमः सर्गः ॥१-६३॥
पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् ।
अभ्यगच्छन् सुराः सर्वे तपः फलचिकीर्षवः ॥१-६३-१॥
अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः ।
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥१-६३-२॥
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ।
विश्वामित्रो महातेजा भूयस्तेपे महत् तपः ॥१-६३-३॥
ततः कालेन महता मेनका परमाप्सराः ।
पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥१-६३-४॥
तां ददर्श महातेजा मेनकां कुशिकात्मजः ।
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥१-६३-५॥
कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत् ।
अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे ॥१-६३-६॥
अनुगृह्णीष्व भद्रं ते मदनेन विमोहितम् ।
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥१-६३-७॥
तपसो हि महाविघ्नो विश्वामित्रमुपागमत् ।
तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव ॥१-६३-८॥
विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमुः ।
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ॥१-६३-९॥
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः ।
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन ॥१-६३-१०॥
सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत् ।
अहोरात्रापदेशेन गताः संवत्सरा दश ॥१-६३-११॥
काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः ।
स निःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ॥१-६३-१२॥
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ।
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ॥१-६३-१३॥
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ।
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः ॥१-६३-१४॥
कौशिकीतीरमासाद्य तपस्तेपे दुरासदम् ।
तस्य वर्षसहस्राणि घोरं तप उपासतः ॥१-६३-१५॥
उत्तरे पर्वते राम देवतानामभूद् भयम् ।
आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ॥१-६३-१६॥
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ।
देवतानां वचः श्रुत्वा सर्वलोकपितामहः ॥१-६३-१७॥
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ।
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः ॥१-६३-१८॥
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ।
ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः ॥१-६३-१९॥
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ।
ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ॥१-६३-२०॥
यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः ।
तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः ॥१-६३-२१॥
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ।
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ॥१-६३-२२॥
ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ।
घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ॥१-६३-२३॥
शिशिरे सलिलेशायी रात्र्यहानि तपोधनः ।
एवं वर्षसहस्रं हि तपो घोरमुपागमत् ॥१-६३-२४॥
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ ।
संतापः सुमहानासीत् सुराणां वासवस्य च ॥१-६३-२५॥
रम्भामप्सरसं शक्रः सर्वैः सह मरुद्गणैः ।
उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥१-६३-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे मेनकानिर्वासः नाम त्रिषष्ठितमः सर्गः ॥१-६३॥
Previous
अम्बरीशयज्ञः
Next
रम्भाशापः