जनकसमागमः
बालकाण्डः / जनकसमागमः
Script
Translation
Previous
अहल्याशापमोक्षः
Next
विश्वामित्रवृत्तम्
अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे जनकसमागमः नाम पञ्चाशः सर्गः ॥१-५०॥
ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह ।
विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत् ॥१-५०-१॥
रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः ।
साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥१-५०-२॥
बहूनीह सहस्राणि नानादेशनिवासिनाम् ।
ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ॥१-५०-३॥
ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः ।
देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम् ॥१-५०-४॥
रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः ।
निवासमकरोद् देशे विविक्ते सलिलान्विते ॥१-५०-५॥
विश्वामित्रमनुप्राप्तं श्रुत्वा नृपवरस्तदा ।
शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितः ॥१-५०-६॥
ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् ।
प्रत्युज्जगाम सहसा विनयेन समन्वितः ॥१-५०-७॥
विश्वामित्राय धर्मेण ददौ धर्मपुरस्कृतम् ।
प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः ॥१-५०-८॥
पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम् ।
स तांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः ॥१-५०-९॥
यथार्हमृषिभिः सर्वैः समागच्छत् प्रहृष्टवत् ।
अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत ॥१-५०-१०॥
आसने भगवानास्तां सहैभिर्मुनिपुंगवैः ।
जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥१-५०-११॥
पुरोधा ऋत्विजश्चैव राजा च सहमन्त्रिभिः ।
आसनेषु यथान्यायमुपविष्टाः समन्ततः ॥१-५०-१२॥
दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ।
अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता ॥१-५०-१३॥
अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया ।
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः ॥१-५०-१४॥
यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह ।
द्वादशाहं तु ब्रह्मर्षे दीक्षामाहुर्मनीषिणः ॥१-५०-१५॥
ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक ।
इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ॥१-५०-१६॥
पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः ।
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ॥१-५०-१७॥
गजतुल्यगती वीरौ शार्दूलवृषभोपमौ ।
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ।
अश्विनाविव रूपेण समुपस्थितयौवनौ ॥१-५०-१८॥
यदृच्छयेव गां प्राप्तौ देवलोकादिवामरौ ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥१-५०-१९॥
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने ।
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥१-५०-२०॥
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ।
काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥१-५०-२१॥
तस्य तद् वचनं श्रुत्वा जनकस्य महात्मनः ।
न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ ॥१-५०-२२॥
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ।
तत्रागमनमव्यग्रं विशालायाश्च दर्शनम् ॥१-५०-२३॥
अहल्यादर्शनं चैव गौतमेन समागमम् ।
महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥१-५०-२४॥
एतत् सर्वं महातेजा जनकाय महात्मने ।
निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥१-५०-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे जनकसमागमः नाम पञ्चाशः सर्गः ॥१-५०॥
Previous
अहल्याशापमोक्षः
Next
विश्वामित्रवृत्तम्