भगीरथवरप्रदानम्

बालकाण्डः / भगीरथवरप्रदानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे भगीरथवरप्रदानम् नाम द्विचत्वारिंशः सर्गः ॥१-४२॥
कालधर्मं गते राम सगरे प्रकृतीजनाः । राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥१-४२-१॥
स राजा सुमहानासीदंशुमान् रघुनन्दन । तस्य पुत्रो महानासीद् दिलीप इति विश्रुतः ॥१-४२-२॥
तस्मै राज्यं समादिश्य दिलीपे रघुनन्दन । हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम् ॥१-४२-३॥
द्वात्रिंशच्छतसाहस्रं वर्षाणि सुमहायशाः । तपोवनगतो राजा स्वर्गं लेभे तपोधनः ॥१-४२-४॥
दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् । दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥१-४२-५॥
कथं गङ्गावतरणं कथं तेषां जलक्रिया । तारयेयं कथं चैतानिति चिन्तापरोऽभवत् ॥१-४२-६॥
तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः । पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥१-४२-७॥
दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् । त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥१-४२-८॥
अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति । व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥१-४२-९॥
इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा । राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥१-४२-१०॥
भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन । अनपत्यो महाराजः प्रजाकामः स च प्रजाः ॥१-४२-११॥
मन्त्रिष्वाधाय तद् राज्यं गङ्गावतरणे रतः । तपो दीर्घं समातिष्ठद् गोकर्णे रघुनन्दन ॥१-४२-१२॥
ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः । तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥१-४२-१३॥
अतीतानि महाबाहो तस्य राज्ञो महात्मनः । सुप्रीतो भगवान् ब्रह्मा प्रजानां प्रभुरीश्वरः ॥१-४२-१४॥
ततः सुरगणैः सार्धमुपागम्य पितामहः । भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥१-४२-१५॥
भगीरथ महाराज प्रीतस्तेऽहं जनाधिप । तपसा च सुतप्तेन वरं वरय सुव्रत ॥१-४२-१६॥
तमुवाच महातेजाः सर्वलोकपितामहम् । भगीरथो महाबाहुः कृताञ्जलिपुटः स्थितः ॥१-४२-१७॥
यदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम् । सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः ॥१-४२-१८॥
गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् । स्वर्गं गच्छेयुरत्यन्तं सर्वे च प्रपितामहाः ॥१-४२-१९॥
देव याचे ह संतत्यै नावसीदेत् कुलं च नः । इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥१-४२-२०॥
उक्तवाक्यं तु राजानं सर्वलोकपितामहः । प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ॥१-४२-२१॥
मनोरथो महानेष भगीरथ महारथ । एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन ॥१-४२-२२॥
इयं हैमवती ज्येष्ठा गङ्गा हिमवतः सुता । तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम् ॥१-४२-२३॥
गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते । तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः ॥१-४२-२४॥
तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् । जगाम त्रिदिवं देवैः सर्वैः सह मरुद्गणैः ॥१-४२-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे भगीरथवरप्रदानम् नाम द्विचत्वारिंशः सर्गः ॥१-४२॥