मिथिलाप्रस्थानम्

बालकाण्डः / मिथिलाप्रस्थानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे मिथिलाप्रस्थानम् नाम एकत्रिंशः सर्गः ॥१-३१॥
अथ तां रजनीं तत्र कृतार्थौ रामलक्ष्मणौ । ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१-३१-१॥
प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ । विश्वामित्रमृषींश्चान्यान् सहितावभिजग्मतुः ॥१-३१-२॥
अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् । ऊचतुर्परमोदारं वाक्यं मधुरभाषिणौ ॥१-३१-३॥
इमौ स्म मुनिशार्दूल किङ्करौ समुपागतौ । आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम् ॥१-३१-४॥
एवमुक्ते तयोर्वाक्ये सर्व एव महर्षयः । विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥१-३१-५॥
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति । यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् ॥१-३१-६॥
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि । अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥१-३१-७॥
तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः । अप्रमेयबलं घोरं मखे परमभास्वरम् ॥१-३१-८॥
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः । कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥१-३१-९॥
धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः । न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥१-३१-१०॥
तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः । तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम् ॥१-३१-११॥
तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः । याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥१-३१-१२॥
आयागभूतं नृपतेस्तस्य वेश्मनि राघव । अर्चितं विविधैर्गन्धैर्धूपैश्चागुरुगन्धिभिः एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा । सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेवताः ॥१-३१-१३॥
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् । उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥१-३१-१४॥
इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः । उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥१-३१-१५॥
तं प्रयान्तं मुनिवरमन्वगादनुसारिणाम् । शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम् ॥१-३१-१६॥
मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः । अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम् ॥१-३१-१७॥
निवर्तयामास ततः सर्षि सन्घः स पक्षिणः । ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१-३१-१८॥
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥१-३१-१९॥
तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः । विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥१-३१-२०॥
रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च । अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥१-३१-२१॥
अथ रामो महातेजा विश्वामित्रं तपोधनम् । पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः ॥१-३१-२२॥
भगवन् को न्वयं देशः समृद्धवनशोभितः । श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥१-३१-२३॥
चोदितो रामवाक्येन कथयामास सुव्रतः । तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥१-३१-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे मिथिलाप्रस्थानम् नाम एकत्रिंशः सर्गः ॥१-३१॥