सिद्धाश्रमः

बालकाण्डः / सिद्धाश्रमः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे सिद्धाश्रमः नाम एकोनत्रिंशः सर्गः ॥१-२९॥
अथ तस्याप्रमेयस्य वचनं परिपृच्छतः । विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥१-२९-१॥
इह राम महाबाहो विष्णुर्देवनमस्कृतः । वर्षाणि सुबहूनीह तथा युगशतानि च ॥१-२९-२॥
तपश्चरणयोगार्थमुवास सुमहातपाः । एष पूर्वाश्रमो राम वामनस्य महात्मनः ॥१-२९-३॥
सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः । एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ॥१-२९-४॥
निर्जित्य दैवतगणान् सेन्द्रान् सहमरुद्गणान् । कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥१-२९-५॥
यज्ञं चकार सुमहानसुरेन्द्रो महाबलः । बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः । समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥१-२९-६॥
बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् । असमाप्तव्रते तस्मिन् स्वकार्यमभिपद्यताम् ॥१-२९-७॥
ये चैनमभिवर्तन्ते याचितार इतस्ततः । यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥१-२९-८॥
स त्वं सुरहितार्थाय मायायोगमुपाश्रितः । वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥१-२९-९॥
एतस्मिन्नन्तरे राम कश्यपोग्निसमप्रभः । अदित्या सहितो राम दीप्यमान इवौजसा ॥१-२९-१०॥
देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् । व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् ॥१-२९-११॥
तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् । तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥१-२९-१२॥
शरीरे तव पश्यामि जगत् सर्वमिदं प्रभो । त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ॥१-२९-१३॥
तमुवाच हरिः प्रीतः कश्यपं गतकल्मषम् । वरं वरय भद्रं ते वरार्होऽसि मतो मम ॥१-२९-१४॥
तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् । अदित्या देवतानां च मम चैवानुयाचितम् ॥१-२९-१५॥
वरं वरद सुप्रीतो दातुमर्हसि सुव्रत । पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ ॥१-२९-१६॥
भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन । शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥१-२९-१७॥
अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति । सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः ॥१-२९-१८॥
अथ विष्णुर्महातेजा अदित्यां समजायत । वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥१-२९-१९॥
त्रीन् पदानथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् । आक्रम्य लोकान् लोकार्थी सर्वलोकहिते रतः ॥१-२९-२०॥
महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा । त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः ॥१-२९-२१॥
तेनैव पूर्वमाक्रान्त आश्रमः श्रमनाशनः । मयापि भक्त्या तस्यैव वामनस्योपभुज्यते ॥१-२९-२२॥
एनमाश्रममायान्ति राक्षसा विघ्नकारिणः । अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥१-२९-२३॥
अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् । तदाश्रमपदं तात तवाप्येतद् यथा मम ॥१-२९-२४॥
इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम् । प्रविशन्नाश्रमपदं व्यरोचत महामुनिः । शशीव गतनीहारः पुनर्वसुसमन्वितः ॥१-२९-२५॥
तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः । उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥१-२९-२६॥
यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते । तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥१-२९-२७॥
मुहूर्तमथ विश्रान्तौ राजपुत्रावरिंदमौ । प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥१-२९-२८॥
अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव । सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥१-२९-२९॥
एवमुक्तो महातेजा विश्वामित्रो महानृषिः । प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः ॥१-२९-३०॥
कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ । प्रभातकाले चोत्थाय पूर्वां संध्यामुपास्य च ॥१-२९-३१॥
प्रशुची परमं जाप्यं समाप्य नियमेन च । हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥१-२९-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सिद्धाश्रमः नाम एकोनत्रिंशः सर्गः ॥१-२९॥