ताटकावृत्तान्तः

बालकाण्डः / ताटकावृत्तान्तः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे बालकाण्डे ताटकावृत्तान्तः नाम पञ्चविंशः सर्गः ॥१-२५॥
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् । श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥१-२५-१॥
अल्पवीर्या यदा यक्षी श्रूयते मुनिपुङ्गव । कथं नागसहस्रस्य धारयत्यबला बलम् ॥१-२५-२॥
इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः । हर्षयन् श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम् ॥१-२५-३॥
विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा । वरदानकृतं वीर्यं धारयत्यबला बलम् ॥१-२५-४॥
पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् । अनपत्यः शुभाचारः स च तेपे महत्तपः ॥१-२५-५॥
पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा । कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥१-२५-६॥
ददौ नागसहस्रस्य बलं चास्याः पितामहः । न त्वेव पुत्रं यक्षाय ददौ चासौ महायशाः ॥१-२५-७॥
तां तु बालां विवर्धन्तीं रूपयौवनशालिनीम् । जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥१-२५-८॥
कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत । मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत् ॥१-२५-९॥
सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् । ताटका सहपुत्रेण प्रधर्षयितुमिच्छति ॥१-२५-१०॥
भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत । आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ॥१-२५-११॥
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः । अगस्त्यः परमामर्षस्ताटकामपि शप्तवान् ॥१-२५-१२॥
पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपम् विहायाशु दारुणं रूपमस्तु ते ॥१-२५-१३॥
सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता । देशमुत्सादयत्येनमगस्त्याचरितं शुभम् ॥१-२५-१४॥
एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् । गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥१-२५-१५॥
नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् । निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥१-२५-१६॥
नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम । चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना ॥१-२५-१७॥
नृशंसमनृशंसं वा प्रजारक्षणकारणात् । पातकं वा सदोषं वा कर्तव्यं रक्षता सदा ॥१-२५-१८॥
राज्यभारनियुक्तानामेष धर्मः सनातनः । अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते ॥१-२५-१९॥
श्रूयते हि पुरा शक्रो विरोचनसुतां नृप । पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥१-२५-२०॥
विष्णुना च पुरा राम भृगुपत्नी पतिव्रता । अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥१-२५-२१॥
एतैश्चान्यैश्च बहुभी राजपुत्रैर्महात्मभिः । अधर्मसहिता नार्यो हताः पुरुषसत्तमैः । तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ॥१-२५-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे ताटकावृत्तान्तः नाम पञ्चविंशः सर्गः ॥१-२५॥