अक्रूर आगमनम्

अक्रूर आगमनम्

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
द्विसप्ततितमम् दशकम्
अक्रूर आगमनम्
कंसोऽथ नारदगिरा व्रजवासिनं त्वाम्
आकर्ण्य दीर्णहृदय: स हि गान्दिनेयम् । आहूय कार्मुकमखच्छलतो भवन्तम् आनेतुमेनमहिनोदहिनाथशायिन् ॥१॥
अक्रूर एष भवदंघ्रिपरश्चिराय त्वद्दर्शनाक्षममना: क्षितिपालभीत्या । तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम् आनन्दभारमतिभूरितरं बभार ॥२॥
सोऽयं रथेन सुकृती भवतो निवासं गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् । आस्वादयन् मुहुरपायभयेन दैवं सम्प्रार्थयन् पथि न किञ्चिदपि व्यजानात् ॥३॥
द्रक्ष्यामि वेदशतगीतगतिं पुमांसं स्प्रक्ष्यामि किंस्विदपि नाम परिष्वजेयम् । किं वक्ष्यते स खलु मां क्वनु वीक्षित: स्यात् इत्थं निनाय स भवन्मयमेव मार्गम् ॥४॥
भूय: क्रमादभिविशन् भवदंघ्रिपूतं वृन्दावनं हरविरिञ्चसुराभिवन्द्यम् । आनन्दमग्न इव लग्न इव प्रमोहे किं किं दशान्तरमवाप न पङ्कजाक्ष ॥५॥
पश्यन्नवन्दत भवद्विहृतिस्थलानि पांसुष्ववेष्टत भवच्चरणाङ्कितेषु । किं ब्रूमहे बहुजना हि तदापि जाता एवं तु भक्तितरला विरला: परात्मन् ॥६॥
सायं स गोपभवनानि भवच्चरित्र- गीतामृतप्रसृतकर्णरसायनानि । पश्यन् प्रमोदसरितेव किलोह्यमानो गच्छन् भवद्भवनसन्निधिमन्वयासीत् ॥७॥
तावद्ददर्श पशुदोहविलोकलोलं भक्तोत्तमागतिमिव प्रतिपालयन्तम् । भूमन् भवन्तमयमग्रजवन्तमन्त: ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥८॥
सायन्तनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ । नातिप्रपञ्चधृतभूषणचारुवेषौ मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥९॥
दूराद्रथात्समवरुह्य नमन्तमेनम् उत्थाप्य भक्तकुलमौलिमथोपगूहन् । हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रगृह्य सबलोऽथ गृहं निनेथ ॥१०॥
नन्देन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् । गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषी: ॥११॥
चन्द्रागृहे किमुत चन्द्रभगागृहे नु राधागृहे नु भवने किमु मैत्रविन्दे । धूर्तो विलम्बत इति प्रमदाभिरुच्चै: आशङ्कितो निशि मरुत्पुरनाथ पाया: ॥१२॥