सुदर्शन शाप मोक्षः शङ्खचूड वधः अरिष्ट वधः च

सुदर्शन शाप मोक्षः शङ्खचूड वधः अरिष्ट वधः च

Back to Narayaneeyam

Script

Translation

अथ श्रीमन्नारायणीयम्
सप्ततितमम् दशकम्
सुदर्शन शाप मोक्ष: शङ्खचूड वध: अरिष्ट वध: च
इति त्वयि रसाकुलं रमितवल्लभे वल्लवा:
कदापि पुरमम्बिकाकमितुरम्बिकाकानने । समेत्य भवता समं निशि निषेव्य दिव्योत्सवं सुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥१॥
समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् बलात् अमुञ्चति भवत्पदे न्यपति पाहि पाहीति तै: । तदा खलु पदा भवान् समुपगम्य पस्पर्श तं बभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥२॥
सुदर्शनधर प्रभो ननु सुदर्शनाख्योऽस्म्यहं मुनीन् क्वचिदपाहसं त इह मां व्यधुर्वाहसम् । भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ स्तुवन् निजपदं ययौ व्रजपदं च गोपा मुदा ॥३॥
कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै: जहार धनदानुग: स किल शङ्खचूडोऽबला: । अतिद्रुतमनुद्रुतस्त्वमथ मुक्तनारीजनं रुरोजिथ शिरोमणिं हलभृते च तस्याददा: ॥४॥
दिनेषु च सुहृज्जनैस्सह वनेषु लीलापरं मनोभवमनोहरं रसितवेणुनादामृतम् । भवन्तममरीदृशाममृतपारणादायिनं विचिन्त्य किमु नालपन् विरहतापिता गोपिका: ॥५॥
भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिररिष्ट: । निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥६॥
शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधान: । पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥७॥
तुङ्गशृङ्गमुखमाश्वभियन्तं संगृहय्य रभसादभियं तम् । भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदय: सुरलोकम् ॥८॥
चित्रमद्य भगवन् वृषघातात् सुस्थिराऽजनि वृषस्थितिरुर्व्याम् । वर्धते च वृषचेतसि भूयान् मोद इत्यभिनुतोऽसि सुरैस्त्वम् ॥९॥
औक्षकाणि परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी । इत्थमात्तहसितै: सह गोपैर्गेहगस्त्वमव वातपुरेश ॥१०॥