रूपमाधुर्यं भक्तिमहत्त्वम् च

रूपमाधुर्यं भक्तिमहत्त्वम् च

Back to Narayaneeyam

Script

Translation

ॐ नमो नारायणाय
अथ श्रीमन्नारायणीयम्
द्वितीयम् दशकम्
रूपमाधुर्यं भक्तिमहत्त्वम् च
सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥१॥
केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित- श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । काञ्चित् काञ्चनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनीम् आलम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥२॥
यत्त्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽ- प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥३॥
तत्तादृङ्मधुरात्मकं तव वपु: सम्प्राप्य सम्पन्मयी सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि । तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक - प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥४॥
लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे- त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते । ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जनाः तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥५॥
एवंभूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् । सद्य: प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं व्यासिञ्चत्यपि शीतवाष्पविसरैरानन्दमूर्छोद्भवै: ॥६॥
एवंभूततया हि भक्त्यभिहितो योगस्स योगद्वयात् कर्मज्ञानमयात् भृशोत्तमतरो योगीश्वरैर्गीयते । सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥७॥
निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुन: । तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥८॥
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला बोधे भक्तिपथेऽथवाऽप्युचिततामायान्ति किं तावता । क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनः चित्तार्द्रत्वमृते विचिन्त्य बहुभिस्सिद्ध्यन्ति जन्मान्तरै: ॥९॥
त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं सिद्ध्यन्ती विमलप्रबोधपदवीमक्लेशतस्तन्वती । सद्यस्सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद- प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥१०॥